Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 635
________________ २५० वक्रोक्तिजीवितम् कानां किमपि चित्तचमत्कारवैचित्र्यमासूत्रयन्ति । यथा बालरामायणे चतुर्थेऽङ्के लङ्केश्वरानुकारी प्रहस्तानुकारिणा नटो नटेनानुवर्तमानः कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने । नमः शृङ्गारबीजाय तस्मै कुसुमधन्वने ॥ ४४ ॥ इत्यादिना नटान्तराभिनीयमान (विविधभावना) भङ्गीतरङ्गितवक्रता गरिमणि गर्भाङ्के सामाजिकीभूय (सीता) सखीभिर्विभावनविक्रियाभिरभिनीयमानो मनोरथातिरिक्तमानन्दमुत्पादयति सहृदयानाम् । तत्सूक्तिसर्वस्वं च स्वयमेवोत्प्रेक्ष्य व्याख्येयम् । प्रबन्धान्तः प्रकरणवक्रताप्यस्य प्रकरणस्य तत्रैव- [४.१३ श्रवणैः पेयमनेकैर्दृश्यं दीर्धैश्च लोचनैर्बहुभिः । भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम् ॥ ४५ ॥ इत्यनेन प्रकाश्यते । यथा वा उत्तररामचरिते सप्तमेऽङ्के रामभद्रा (नुकारी) लक्ष्मणसहकारिणा नर्तको नर्तकेनोपास्यमानः " ( नेपथ्ये) अज्जउत्त, हा कुमार लक्खण, एआइणि असरणं अरणे आसण्णपसववेअणं हृदासं सावदा में अहिलसन्ति । साहं दाणि मन्दभाइणी भाईरईए अत्ताणं णिक्खिविस्सामि । ” ।। ४६ ॥ ( हा अर्यपुत्र, हा कुमारलक्ष्मण, एकाकिनीं मन्दभागिनीमशरणामरण्ये आसन्नप्रसववेदनां हताशां श्वापदा मामभिलषन्ति | साहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षिपामि ।) इत्यादिना नटान्तरेत्यादि पूर्ववत् । अपरमपि प्रकरणवक्रतायाः प्रकारमाविष्करोति

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660