Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२४८
वक्रोक्तिजीवितम्
[४.९१ षङ्गणसंयोगदृढा उपायपरिपाटिघटितपाशमुखी ।
चाणक्यनीतिरज्जू रिपुसंयमनोद्यता जयति ।। इति छाया। विशेषणवक्रताविशिष्टेन रूपकेण पुरुषस्यायमभिप्रायः प्रकाश्यते । यथा
त एव गुणास्त एवाभ्युपायास्तदेव च नीतितन्त्रम्, तथापि कस्यचिदेवाविकलकौशलप्रसारिता रिपुकुलसंयमनाय संघटना अविदितविविधबन्धयुक्ता नीतिप्रयुक्ता तद्विदामपि विमोहमावहति, अत एव जयतीति । तथा च“राक्षसः भद्रमुख अस्याग्निप्रवेशे सुहृदस्ते को हेतुः?
किमौषधपथातिगैरुपहतो महाव्याधिभिः ? पुरुषः--अज्ज णहि णहि (आर्य न हि न हि) राक्षसः--किमग्निविषकल्पया नरपतेनिरस्तः क्रुधा ? पुरुषः-..सन्तं पावं सन्तं पावं, चंदउत्तस्स जणवदे ण णिसंसा पडिवत्ती। (शान्तं पापं, शान्तं पापम् । चन्द्रगुप्तस्य जनपदेष्वनृशंसा प्रतिपत्ति:) राक्षसः-अलभ्यमनुरक्तवान् कथय किं नु नारीजनम् ? पुरुषः- (कौँ पिधाय) सन्तं पावं, अभूमि क्खु एसो अविण
अस्स । (शान्तं पापम् । अभूमिः खल्वेष अविनयस्य) राक्षसः–किमस्य भवतो यथा सुहृद एव नाशो विषम् ॥४३॥ पुरुषः-अज्ज अह इं? (आर्य अथ किम् )" अत्र महाव्याधिभिरिति बहुवचन वक्रत्वं, अग्निविषकल्पयेति च (विशेषणवक्रत्वं) तथाविधराजापथ्यविधायी वध्यस्थानस्थापितोऽपि चन्दनदासः तत्कलत्रमद्यापि याचितो न समर्पयतीति

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660