Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 632
________________ ४.११] चतुर्थोन्मेषः " "" अपराध्यस्य " प्रकरणस्य "वक्रता” वक्रभावो भवतीति संबन्धः । 'यत्रोल्लसति ” = उन्मीलति । ( कीदृशी ) 'सोल्लेखा " - अभिनवोद्भेदभङ्गी । (सुभगा चासौ सुन्दरप्रतिरूपा ) " वस्त्वन्तरविचित्रता " = वस्त्वन्तरमितरद्वस्तु, तस्य विचित्रता वैचित्र्यं नूतनचमत्कार इति यावत् । किमर्थं " प्रधानवस्तुनिष्पत्त्यै" । प्रधानमधिकृतं प्रकरणं कमपि वक्रिमाणमाक्रामति । (( (( यथा मुद्राराक्षसे षष्ठेऽङ्के "ततः प्रविशति रज्जुहस्तः पुरुषः " इत्यादि प्रकरणम् । तत्र हि स पुमान् निरुपमाननय केलिकुशलकौटिल्यप्रयोज्यमानो निपुणमतिर्जीर्णोद्याने मुद्रोद्गलनसमुच्चलितविपक्षतारूक्षं राक्षसमाकृष्टकृपाणपाणिमापतन्तमपश्यन्निव स्वयमुदग्रग्रीवावलम्बिना रज्जुवलयेन व्यापादयितुम् ( आत्मानं ) आरेभे । राक्षसेनापि कौतुककरुणाक्रान्तमनसा भद्रमुख किमिदमिति पृष्टम् । आः किं मम महादुःखप्रशमकारणे मरणेऽन्तरायमाचरसीत्याचचक्षे । तन्निर्बन्धाच्च वध्यभूमिमानीतस्य महासत्त्व(मुकुट) मणेर्मणिकारश्रेष्ठिनश्चन्दनदासस्य प्रियसुहृदो दुःखावेगमसहिष्णुर्विष्णुदासोऽपि मत्प्रियमित्रं पुरोऽस्य पावकं प्रविष्टुमुद्यतः । ततोऽहमपि तद्वदेव शोकावेगमसहमान: प्रथममेवात्मानं व्यापादयामीत्यावेदयामास । किं बहुना, विचित्रसंभावनागहने नीतिवर्त्मनि विचक्षणमन्यस्य राक्षसस्यापि तथा संभ्रमः सन्तापमुज्जनयांबभूवे, यथा वा सः स्वदेहदानेन चन्दनदासदेहमोचनायोपचक्रमे 1 अत्रापि किंचिदुदाह्रियते यथा २४७ छग्गुणसं जो अदिढा उवाअपरिवाडिघडिअपासमुही । चाणक्कणीतिरज्ज रिपुसंजमअज्जआ जअदि ॥४२॥

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660