________________
२४२
वक्रोक्तिजीवितम्
कथावैचित्र्यपात्रं तद्वक्रिमाणं प्रपद्यते । यदङ्गं सर्गबन्धादेः सौन्दर्याय निबध्यते ॥ ९ ॥
'कथावैचित्र्यपात्रं "
" तद्वक्रिमाणं (प्रपद्यते ) " किंविशिष्टं प्रस्तुत संविधानकभङ्गीभाजनं । किं तत् ? " यदङ्गं सर्ग बन्धादेः सौन्द
—
[ ४.९
"
=
""
=
र्याय निबध्यते " ' यत् " – जलक्रीडादिप्रकरणं ( " सर्गबन्धादेः " ) महाकाव्यप्रभृतेः (" सौन्दर्याय " ) - उपशोभानिष्पत्यं (" निबध्यते”) निवेश्यते ।
-
अयमस्य परमार्थ:-- प्रबन्धेष जलकेलिकुसुमापचयप्रभृति प्रकरणं प्रक्रान्तसंविधानकानुबन्धि निबध्यमानं निधानमिव कमनीयसंपदः संपद्यते ।
यथा रघुवंशे
अथोमिलोलोन्मदराजहंसे रोघोलतापुष्पवहे सरय्वाः । विहर्तुमिच्छा वनितासखस्य
तस्याम्भसि ग्रीष्मसुखे बभूव ।। ३३ ।।
इत्यादि । जलक्रीडास्पर्शानन्तरलक्षितत्वात् अखिलमदविकल(ललना) विलासमूलाध्यास्यमानोत्सवाकुलस्य (कुमुदकन्या) कन्दुकक्रीडालक्षणमुत्सवान्तरमुत्तरकथोपकार्यपपद्यते, तद्विदामाह्लादमाव
हति च ।
तथा हि राज्ञः करा (स्फालनाभ्यक्षणा) दिवारिविहाररसपरवशान्तःकरणस्य (करारविन्दा) दलंकरण मलक्षितपतनमुत्पन्नकुतूहला कुमुद्वती नाम नागकन्या जगृहे । ततस्तस्मिन्नादरोद्रेकादन्विष्टेऽप्यनासादिते पाथोन्तर्वर्तिनं नागनायकमानीय निवेदितं कुमुदमुद्दिश्य दशाननान्तकनन्दनः समधत्त धनुषि धन्वी गारुत्मतमस्त्रम् । अथ