________________
४.८]
चतुर्थोन्मेष:
अत्र तपस्विगाढामिति विशेषणवक्रतया विविधधर्माचारपरायणतापससंकुलां तमसां पश्यन्नपि शब्दश्रवणमात्रात् शरं व्याकृष्य शरमोक्षमविकलान्तःकरणः कथमकुर्वतेति प्रकाश्यते ।
66
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः" इत्यनेन न्यायेन परधाराधिरूढदुर्धरव्यसन रागान्धका रकवलितविवेकदृष्टयस्तथाविधा अशुद्धाध्वनि सञ्चरन्त इत्युपपत्तिरप्युपपादिता । उत्तरकथोपकारोऽप्येकदेशस्यास्त्येव । तथा हि
दिष्टान्तमाप्स्यति भवानपि पुत्रशोकादन्ते वयस्यमिवेति तमुक्तवन्तम् ॥ ३१ ॥
-
२४१
इति विशीर्णतापसवितीर्णशापस्य तापसं प्रति प्रतिवचनं कौसल्यापतेः तथाहि
शापोऽप्यदृष्टतनयाननपद्मशोभे
सानुग्रहो भगवता मयि पातितोऽयम् । कृष्यां दहन्नपि खल क्षितिमिन्धनेद्धः बीजप्ररोहजननीं दहनः करोति ॥ ३२ ॥
अत्र शाप इति एवंविधापचारप्राग्भारप्रभवो भवतु नाम । सानुग्रह इति अनुग्रहः पुनरयमनुपपन्न एवास्यामवस्थायाम् । भगवते - त्यनर्थदर्शनेन सहजदयालुना । यदि वा भगवता शापोऽपि इति शापानुग्रहयोर्दहनवारिणोरिवैककालमेकविषयवर्तित्वमसतोरपि भगवत् (स्वरूप) संपत्सामर्थ्यादेव संभाव्यते, अदृष्टतनयाननपद्मशोभे मयि एतस्मादेवानुग्रहादवश्यंभाविनः सुचिरकालाभिकाङ्क्षितस्य सुतावलम्बनतनोर्जीवितफलस्य विलोकनोत्कण्ठापारवश्यात् (सार्थक्यम् ) इत्यलमतिप्रसङ्गेन । अस्या एव प्रभेदान्तरमुन्मीलयति
16