SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ २४० वक्रोक्तिजीवितम् [४.८ इत्यादि । एतैर्हि विचित्रवाच्यवाचकौचित्यचारुभिर्वाक्यविशेषविविधव्यापारपारवश्यमतितरां प्रतीयते । यथा स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् । वनरति रतिवायांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥२८॥ अत्र वनरतिरिति विशेषणवक्रता वने स्थित्या विलासगृहकेलीपर्य) प्रेयसीं समेत्य मधुगोष्ठीप्रभृत्युपभोगप्रतीतिप्रत्याख्यातप्रतीति प्रतिपादयन्त्या प्रस्तुतरसावेश एव वितन्यते । त्रियामेति वचनवक्रतोल्लेखेन चिरतरसमयमन्ध (कारः) समुन्मील्यते । रूढिवक्रतामहिम्ना च निर्भरान्धकारनिवारितरुचिरव्यापारप्रकारान्तरसान्तरायकारित्वात् तत्प्रतिकलता प्रतिपाद्यते । अत एवातिवाहयांबभवेति क्रियावक्रत्ववैचित्र्येण दारुणदेहवेदनां शयनगत: अपगमयामास, परमपरिश्रमविधाने निद्रा रसदायिनीत्यभिननन्द । यथा च इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धरापतिम् । परिवृद्ध रागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥२९॥ अत्र जहारेति क्रियावक्रत्वविच्छित्त्या, मृगयाया करणीयेतरभावनासुविकलान्तःकरणत्वमङ्करितं महीभर्तुः । तथा अथ जातु रुरोर्गृहीतवर्मा विपिने पार्श्वचरैरलक्ष्यमाणः । श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदी तुरङ्गमेण ॥३०॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy