________________
२४३
४.९]
चतुर्थोन्मेषः परित्राणपर्याकुलः कुमुदः कुमुद्वतीं स्वसारमाभरणेन समं करकमलालंकारिणा विदेहनन्दिनीनन्दनस्या (र्पयामास) । अत्र सूक्तानि कानिचिदुदाह्रियन्ते ।
अवैमि कार्यान्तरमानुषस्य विष्णो: सुताख्यामपरां तनुं त्वाम् । सोऽहं कथं नाथ तवाचरेयमाराधनीयस्य धृतेविघातम् ।। ३४ ।। कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन । ह्रदात्पतज्ज्योतिरिवान्तरिक्षाददत्त जैत्राभरणं त्वदीयम् ।। ३५ ।। तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुज़ेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ ३६॥ इमां स्वसारं च यवीयसी मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मापराधं नुदतों चिराय
शुश्रूषया पार्थिव पादयोस्ते ॥ ३७॥ एतेषु भुजङ्गराजवाक्येषु आद्ये 'विष्णो'रिति रूढिवक्रतया वक्तृप्रभावात् पर्यङ्कीभूय भुवनाधारेण अनन्तेन निषेव्यमाणस्य सकलाज्ञापालनसंपादने सज्जो भुजङ्गान्तरो भविष्यतीति प्रतिपाद्यते । 'स' इति संवृतिवक्रत्वेन यः सततमेव तव वास्तव्यविषयः स एवेत्यभिव्यज्यते। कथम् इति पदवक्रतया (त्वयि) भक्तिरिति विधेय