________________
૨૪૪ वक्रोक्तिजीवितम्
[४.९ तानियन्त्रितस्य मम न केनापि प्रकारेण दुश्चरितापन्नं शीलमाशङ्कयमिति ।
द्वितीयेऽपि “औत्पातिकज्योतिरिवान्तरिक्षात्" इत्युपमया न कथं किसलयितदिगन्तरालतरलितमरीचिमण्डलतया यावदस्माकं अकारणकमहाभयसंशयसंपादनमपीत्यवगम्यते ।
तृतीयेऽपि तदेतदिति संवृतिवक्रतया यस्य त्वत्पितुरुरस्थलमिव कौस्तुभस्य भद्रजयविभूष्यताविषयः इति "रक्षापरिघेण भमे:" इति रूपकेण निवारितनिखिलवसुन्धरादुःखस्य त्वद्वाहोरलंकरणम्, 'शुश्रषया पादयो'रिति चरणशुश्रूषापवित्रेण पाणिना संपादितपरिणयोत्सवां 'यवीयसी'मिति द्रुततरतारुण्यावतारितत्वदनुरागप्राग्भाराम् । अत एव नार्हसि नानुमन्तुमपि । तहर्यहस्यैव गत्यन्तराभावादिति प्रतीयते ।
“अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती” ॥३८॥ इत्यनन्तरप्रकरणे कथोपकारोऽपि प्रकटमेव वारिविहारस्य दर्शितः । तस्मादेव च तदवसरनिदानतया निदाघवर्णनमपि अत्र
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् । निश्वासहार्यांशुकमाजगाम
धर्मः प्रियावेषमिवोपदेष्टुम् ॥ ३९॥ इत्यादिना निबध्यमानं न कथावैचित्र्यमात्रमतिकामति । (अस्मिन समस्त)प्रबन्धे प्रकरणं प्रक्रान्तसंविधानमपि (नानाप्रियकार्यतन्तुमिलितरूपकारणं प्रसक्तम् । अस्या निदर्शनान्यपि स्वयमन्यान्युदाहरणीयानि ।
जलक्रीडादिकाख्यानमपि संदर्भसुन्दरम् । प्रबन्धस्य कथाप्राणपरिस्पन्दपरं सुखम् ॥ ४० ॥