________________
४.१०]
चतुर्थोन्मेषः इत्यन्तरश्लोकः] पुनरप्यस्याः प्रभेदान्तरमुद्भावयति
यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते ।
पूर्वोत्तरैरसंपाद्यः साङ्कादेः कापि वक्रता ॥१०॥ . “साङ्कादेः कापि वक्रता” “अङ्कादेः” =अङ्कसर्गादे: प्रकरणस्य “सा कापि” =अलौकिकी “वक्रता”–वक्रभावो भवतीति संबन्धः । “यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते” “यत्र”–यस्यां अङ्गी यः “रसः” प्राणरूपः, तस्य निष्यन्दः प्रवाहः तस्य, काञ्चनस्येव निकषः परीक्षोपलवद्विषयविशेष: “कोऽपि” अभूतनिर्माणनिरुपमो लक्ष्यते (निकष) योजने (काञ्चनस्य रेखो) दय रिव विशेषः । किं विशिष्ट: “पूर्वोत्तरैरसंपाद्यः”–प्रापरवृत्तिभिरकाद्यैः संपादयितुमशक्यः ।
इदमत्र तात्पर्यम् । प्रधानरससर्वस्वक्रीडानिकेतनं तत्किमपि प्रकरणं (यत्र) प्रकटतरं च वक्रताविच्छित्तिविद्योतते। यदीयलावण्यातिशयं मनाङ्मात्रमपि पूर्वाण्यपराणि वा प्रकरणान्तराणि नानुकर्तुं शक्रुवन्ति । यथा विक्रमोर्वश्यामुन्मत्ताङ्कःतत्र हि प्रस्तुतरसासाधारण (विभावानुभाव) माधुर्यसंपत्त्या विप्रलम्भशृङ्गारस्याङ्गिनः स कोऽपि (सहृदयहृदया) देः रसनिष्यन्दपरिस्पन्दः परिस्तीर्यते, यः न केवलं प्रकरणान्तरे प्रबन्धान्तरेऽप्यशक्यकामनीयककणिकानुकारः । तथा च तदुपक्रम एव-- राजा (ससंभ्रमम् ) - आ दुरात्मन्, तिष्ठ तिष्ठ ! क्व न खलु प्रियतमामादाय गच्छसि ? (विलोक्य) कथं शैलशिखरात्