________________
२४६
वक्रोक्तिजीवितम्
[४.११
गगनमत्प्लत्य बाणैर्मामभिवर्षति ? (विभाव्य सबाष्पम्) कथं विप्रलब्धोऽस्मिनवजलधरः संनद्धोऽयं न दृप्तनिशाचर: सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥४१॥ अनेनोन्मीलितोन्माददशावैशसस्य राज्ञः, कवचितः शिञ्जितकोदण्डदण्डो दीदापतन् नक्तंचरोऽपि शक्यप्रतीकारो न त्वसौ नवाम्भोद इति, नाराचनिचयोऽपि न तथा मर्माणि कृन्तति यथायमासारधारानिकर इति । किं च नभसि वा भूयः सौदामिन्याः अन्वीक्षणदृष्टनष्टाया: क्षणान्तरे दर्शनमासाद्यते, तथाविधस्थैर्यासंभावितभमेरपि प्रियायाः तत्किमिदमिति चाभिप्रायो वाक्येन प्रतिपाद्यते । “तिष्ठेत्कोपवशादि"त्यादि, ‘पद्या'-मिति, 'तरङ्गेत्यादिकं (च) प्रागुदाहृतमस्माभिरनुसन्धेयम् ।
यथा वा किरातार्जुनीये बाहुयुद्धप्रकरणम्-तत्रापि कवचादिकायरक्षणाधुपकरणमन्तरेणापि सहजबाहुबलावलेपप्रकाशनप्रस्तावप्राप्तिप्रमोदमानमानसस्य निरुपमनियुद्धनिर्माणनिर्मर्यादनिवेद्यमान साहससाहाय्यस्य पाण्डुसूनोः स कोऽपि वीररसस्योत्कर्षः प्रकाशते । (तिष्ठतु तावत् सर्वमितरं सचेतसामित्यभिप्रायः)। परमेश्वरस्यापि केवलमानुषस्य बाहुबलादेवं दूरमुत्क्षिप्य वियत्यान्दोल्यमानस्य कविकल्पितचमत्कारान्तरकारणम् (स्पष्टम्) । एवमन्यदप्युदाहार्यम् । पुनरिमामेवान्यथा प्रथयति --
प्रधानवस्तुनिष्पत्त्यै वस्त्वन्तरविचित्रता । यत्रोल्लसति सोल्लेखा साऽपराप्यस्य वक्रता ॥११॥