Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 611
________________ २२६ वक्रोक्तिजीवितम् [४.१ तथाहि-तत्र नीलस्य सेनापतेर्वचनम् शैला: सन्ति सहस्रशः प्रतिदिशं वल्मीककल्पा इमे दोर्दण्डाश्च कठोरविक्रमरसक्रीडासमुत्कण्ठिताः । कर्णास्वादितकुम्भसंभवकथाः किं नाम कल्लोलिनी कान्ते गोष्पदपूरणेऽपि कपय: कौतूहलं नास्ति वः ॥१॥ वानराणामुत्तरवाक्यं नेपथ्ये कलकलानन्तरम् आन्दोल्यन्ते कति न गिरयः कन्दुकानन्दमुद्रां व्यातन्वाना: कपि परिसरे कौतुकोत्कर्षतर्षात् । लोपामुद्रापरिवृढकथाभिज्ञताप्यस्ति किं तु व्रीडावेशः पवनतनयोच्छिष्टसंस्पर्शनेन ॥२॥ अत्रैव पवनतनयोच्छिष्टे अधिवाचिनि पर्यायवक्रताप्रकारः स्मर्तव्यः । आर्य, दुष्करोऽयमेभिर्मकराकरबन्धाध्यवसाय इति रामेण पर्यनयुक्तस्य जाम्बवतोऽपि वाक्यम् अनङ्करितनिस्सीममनोरथपथेष्वपि । कृतिनः कृत्य संरम्भमारभन्ते जयन्ति च ॥३॥ एवंविधमपरमपि तत एव विभावनीयमभिनवाद्भुताभोगभङ्गीसुभगं सुभाषितसर्वस्वम् । यथा वा रघुवंशे पञ्चमे सर्गे चतुरु (द) धिकाञ्ची कलापालंकरणकाश्यपीपरिवृढस्य विश्वर्जिदाख्यमखदीक्षादक्षिणीकृतसमस्तसंपदः सहजौदार्यरहस्योदाहरणस्य रघोरर्घसंपादितमृण्मयपात्रसमालोकनसमुन्मलितमनोरथाडम्बरे वरतन्तोरन्तेवासिनि निषिद्धगमने मुनौ " किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद्वेति " ॥४॥

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660