Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 616
________________ ४.४] चतुर्थोन्मेषः रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनविगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥११॥ अत्र राज्ञो विशेषणवक्रता, गोत्रेष्विति वचनवत्वं च किमपि चित्तचमत्कारकारि । राज्ञोऽपि स्वयंलिखितालेख्यालोकमानविलोचनस्य स्मरणात्मक दयितात्ममुद्रामुद्रितं सहृदयवचनम् । अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेत् भ्रमर प्रियायाः त्वां कारयामि कमलोदरबन्धनस्थम् ॥ १२ ॥ इत्युदित एवास्वादनीयः । २३१ अविद्यमाने पुनरेतस्मिन् उत्पाद्यलवलावण्यललाम्नि प्रकरणे निष्कारण विस्मरणवैरस्यमितिहासांशस्येव रूपकस्यापि विरूपकतापत्तिनिमित्ततामवगाहते । उत्पाद्यलवलावण्यादिति द्विधा व्याख्येयम् = यथा क्वचिदसदेवोत्पाद्यम्, क्वचिदौचित्यत्यक्तं सदध्यन्यथासंपाद्यम् सहृदयहृदयाह्लादनाय । तच्च प्रागेव व्याख्यातम् 1 यथोदात्तराघवे मारीचवधः । एवमन्यदप्यस्या वक्रताविच्छित्तेरुदाहरणं महाकविप्रबन्धेषु स्वय मुत्प्रेक्षणीयम् । निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः । गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः ॥ १३ ॥ ( इत्यन्तरश्लोकः । )

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660