Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
४.४] चतुर्थोन्मेषः
२२९ प्रकारेण प्रकरणेन व्यवहरन कविः सकलकविरसिकपरिषत्परितोषणमावहति ।
प्रबन्धेऽपि प्रवरनवसंस्कारकारणरमणीयकान्तिपरिपोषः रेखाराजमानपुरातनत्रुटितचित्रदशास्पदसौभाग्यमनुभवति ।
अभिज्ञानशाकुन्तले नाटके इतरतरुणीतिरस्कारकारणाविरोधकत्वेनेक्षणक्षणाकलितललितलावण्यलक्ष्मीललाम निरुपमरूपरेखा सुखप्रत्यभिज्ञा समुज्जृम्भते । विस्रम्भसंभावनासनाथकथारहस्यरम्यपरस्परानुरूपप्रेमप्रकर्षप्रवर्तित चिरतरविचित्रविहरणव्यापारसुप्राप्तप्रत्यभिज्ञां तां शकुन्तलां प्रति दुष्यन्तस्य विस्मरणकारणमितिवृत्तागदितमपि अल्पमात्रापराधप्रवर्तमानक्रूरक्रुधः करुणापराङ्मुखस्य मुनेर्दुवासस: शापमुत्पादितवान् कविः । तत्र हि प्रकरणप्रकाण्डे शकुन्तला किल प्रथमप्रियप्रवासवासरवितीर्णविरहदुःसहदुःखावेशविवशान्तःकरणवृत्तिरुटज (संनिहिता) पर्याकुलेन प्राङ्गणप्रान्ते स्थिते (न) महर्षिणा मन्युसङ्गात्--
विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां स न बोधितोऽपि सन्
कथां प्रमत्तः प्रथमं कृतामिव ।। ८ ।। इत्थं शप्ता। तच्छवणपर्याकुलाभ्यां सखीभ्यां (अनुनीतः) प्रवास्यमानोऽपि मुनिप्रवर: प्रियतमन्यासाङ्गलीयकविलोकनं (शापा) वसाना (वधि) मकार्षीत् । प्रियं प्रति यायाश्च मुनिदुहितुरलंकृताङ्गली किसलयस्याङ्गलीयकस्य कुत्रचित् कुटिलतरतरङ्गिणीपयोवतारादन्तर्जलमलक्षितं परिभ्रष्टस्य ससंभ्रममदभ्रमरीचिमण्डलमाणिक्यसमुल्लसितसरसामिप विशंकाकुलशकलीकवलितस्य

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660