Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 615
________________ २३० वक्रोक्तिजीवितम् [४.४ कालान्तरे तदन्तकारिणा कैवर्तनेन पुनरपि ( समर्पणम्) । एवंविधस्य संविधानकस्य रसनिधानकलशायमानस्य माहात्म्यादखिलस्यापि नाटकस्य कापि (विच्छित्तिः ) समये चञ्चरीकोपालम्भगर्भगीत्यवगमनात् मुनिशापापसारितप्रेयसीस्मृतेरपि तदधिवासवासनापि च परिस्फुरन्ती पौरवस्य पारवश्यं निश्चयामास । तथा च रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि ।। ९ ।। अत्र संमुग्धसुभगमेनका नन्दिनीस्मरणले खालावण्यमन्यदेव चमत्कारकारणं सहृदयानां समुद्योतते । अपरं च परावर्तितायामपि व्यलीकमभिज्ञकं च महर्षिशिष्यसमाख्यातकरग्रहणगर्भाधानायां महामन्युसमुन्मेषः । मनागुल्लङ्घितसहजलज्जावता रतापसशीघ्रापनीतावगुण्ठनेन ( पराङ्गनारचित) तथाविधसकलललनालावण्यावलेपसंपदि संपादितविपञ्चीटङ्कारवल्गुवाग्विलासव्याहृतवनविहरणरहस्याभिज्ञायां भरतमातरि तथारूप प्रत्याख्यानपारुष्यमपि राज्ञः शापस्य संपत्स्यमानानुतापं परस्परं प्रकाशीभवदनर्गलानुरागप्राग्भारसङ्गादतीव सहृदयाह्लादकारि । शापावसानसमुत्पत्तये प्रसिद्धस्मरणसमुल्ला सिदुः सविरहज्वरपातावे गवि कलत्वं च समनन्तरमेवाङ्गुलीयसङ्गमादतीव सहृदयानाह्लादयति । नरपतेस्तत्र कञ्चुकिनो वचनम् - प्रत्यादिष्टविशेष मण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ १०॥

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660