Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 621
________________ २३६ वक्रोक्तिजीवितम् [४.८ तव सुकृतिनः संभाव्यते प्रसादमहोत्सवान् अनुगतदशाः सर्वे, सर्वश्शठो न यथा वयम् ॥ १९ ॥ यथा अन्यत्र हि प्रदीप्तान्तःपुरेण कृशानुना कवलितान् विलासशाखिनः पश्यअभिनवशोकावेशविवशान्तःकरण; “साक्षाद्देवीमनसरन्तस्ते" इति समुत्पन्नमतिनिर्विकल्पमवयवैकैकप्रसादपात्रेभ्योऽपि अविद्वद्भयोऽपि समनुष्ठितसमुचितसाहसेभ्यः समुचिततादृशप्रसादसाधनमभ्यस्ततदास्वादानुभवसर्वस्वमप्यात्मानं तत्समय एव प्रियानुगमनमनाचरन्तमधमं मन्यमानो निरुपमव्रीडानिवेशनिर्भरं निर्भर्त्सयति वत्सराजः । 'धारावेश्म' इत्यादि, ‘कर्ण' इत्यादि च श्लोकद्वयं प्रागुदाहृतमत्र योज्यम् । तृतीयेऽङ्के राजा-(सास्रं निश्वस्य) सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते त्रासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तदा । हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तथा शान्तेनापि वयं तु तेन दहनेनाद्यापि दहयामहे ।।२०।। अत्रशान्तेनापि निर्वाणेनापि तेनाम्लानमालतीमुकुलकोमलदेहविदाहानुमीयमाननैपुण्येन दहनेनाप्येकव्यापारा (नपगत) करणा वयमद्यापि दहयामहे इति नतनोल्लेखविरोधालंकारेण करुणा पूर्व निविष्टापि वक्रतां नीयते । अपि च तथा विधातुं कोमलत्वादेव देव्या तदैव दग्धं, वयं पुनर्वज्रसारातिकठोरिमाणोऽद्यापि दहयामहे न भस्मीभवाम इति विशेषणं प्रस्तुतमेवोल्लासयति । चतुर्थेऽङ्क राजा-(सकरुणमात्मगतम्) हा देवि

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660