________________
२३६ वक्रोक्तिजीवितम्
[४.८ तव सुकृतिनः संभाव्यते प्रसादमहोत्सवान्
अनुगतदशाः सर्वे, सर्वश्शठो न यथा वयम् ॥ १९ ॥ यथा अन्यत्र हि
प्रदीप्तान्तःपुरेण कृशानुना कवलितान् विलासशाखिनः पश्यअभिनवशोकावेशविवशान्तःकरण; “साक्षाद्देवीमनसरन्तस्ते" इति समुत्पन्नमतिनिर्विकल्पमवयवैकैकप्रसादपात्रेभ्योऽपि अविद्वद्भयोऽपि समनुष्ठितसमुचितसाहसेभ्यः समुचिततादृशप्रसादसाधनमभ्यस्ततदास्वादानुभवसर्वस्वमप्यात्मानं तत्समय एव प्रियानुगमनमनाचरन्तमधमं मन्यमानो निरुपमव्रीडानिवेशनिर्भरं निर्भर्त्सयति वत्सराजः ।
'धारावेश्म' इत्यादि, ‘कर्ण' इत्यादि च श्लोकद्वयं प्रागुदाहृतमत्र योज्यम् । तृतीयेऽङ्के राजा-(सास्रं निश्वस्य) सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते त्रासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तदा । हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तथा
शान्तेनापि वयं तु तेन दहनेनाद्यापि दहयामहे ।।२०।। अत्रशान्तेनापि निर्वाणेनापि तेनाम्लानमालतीमुकुलकोमलदेहविदाहानुमीयमाननैपुण्येन दहनेनाप्येकव्यापारा (नपगत) करणा वयमद्यापि दहयामहे इति नतनोल्लेखविरोधालंकारेण करुणा पूर्व निविष्टापि वक्रतां नीयते । अपि च तथा विधातुं कोमलत्वादेव देव्या तदैव दग्धं, वयं पुनर्वज्रसारातिकठोरिमाणोऽद्यापि दहयामहे न भस्मीभवाम इति विशेषणं प्रस्तुतमेवोल्लासयति । चतुर्थेऽङ्क
राजा-(सकरुणमात्मगतम्) हा देवि