________________
२३५
४.८]
चतुर्थोन्मेषः "बध्नाति”–नियन्त्रयति निबन्धयतीति यावत् । कां-“वक्रतोद्भेदभङ्गीम्"- गम्भीरवक्रभावाविर्भावितां शोभाम् । किंविशिष्टां-“उद्भाविताद्भताम्" = कन्दलितकुतूहलाम् । क: “एक एवाभिधेयात्मा"-तदेव वस्तुस्वरूपम् । किं क्रियमाण:“बध्यमानः" प्रस्तुतौचित्यचारुरचनामात्रस्पन्दमानः । कथं "पुनः पुनः”-वारं वारं। क्व-"प्रतिप्रकरणम्" =प्रकरणे प्रकरणे, स्थाने स्थाने इति यावत् । नन्वेवं पुनरुक्ततापात्रतां समासादयतीत्याह-“अन्यूननूतनोल्लेखरसालंकरणोज्ज्वल:" अविकलाभिनवोल्लासशृङ्गाररूपकादिपरिस्पन्दभ्राजिष्णुः । कीदृशः"प्रौढप्रतिभाभोगयोजितः" प्रगल्भतरप्रज्ञाप्रकारप्रकाशितः ।
अयमस्य परमार्थः-तदेवं सकलचन्द्रोदया (दि) प्रकरणप्रकारेषु वस्तु प्रस्तुतकथासंविधानकानुरोधात् मुहुर्मुहुरुपनिबध्यमानं यदि परिपूर्णपूर्व विरूपरसालंकाररामणीयकनिर्भरं भवति तदा कामपि रामणीयकमर्यादां वक्रतामवतारयति ।
यथा हर्षचरिते-अभिनवभङ्गीपरिग्रहप्रथितसौभाग्योपसंपत् (धरा) धर-विभावरीविराम (दि) रामणीयककी नकस्थानेषु चमत्कुरुते। तत एव च तदास्वादनीयम् । बहुत्वादत्र वर्णयितुमशक्यम् ।
यथा वा तापसवत्सराजे रसविलाससर्वस्वनिवासायमानत्वादुदाहरणम् करुणः प्रत्यङ्गमभिनवाभिरुक्तो भङ्गीभिरुद्भासते; यथा द्वितीयेऽङ्कःराजा-(सकरुणं पुरोऽवलोक्य) हा देवि पादपैरप्यपगतासि कुरवकतरुर्गाढाश्लेषं, मुखासवलालनां बकुलविटपी, रक्ताशोकस्तथा चरणाहतिम् ।