________________
४.८]
चतुर्थोन्मेषः
चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्निर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता । येोक्तासि विना त्वया बत जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः ॥ २१ ॥ इति सखेदमास्ते ।
२३७
अत्र हि क्वचिदिति केलिक्लमापनोदननिमित्तं निकेतपृष्ठसंचारणीयासु लीलासु अप्रयत्नसुलभदर्शने तन मात्रोन्मीलितसंपातबिम्बलावण्यलेशशङ्कमानत्वदाननान्तेवासित्वे चन्द्रमसि दर्शितनिजवाक्योपारूढपदार्थत्वात् पर्यालोचनया ( करुणमेव ) प्रत्याययति । येनेति पर्यङ्कार्धश यनमपि प्रवासपदमिव परिहरतीति तदेव व्यनक्ति । क्षणादिति एतावन्तमपि कालं त्वया विरहितस्य जीवतः कियदौयं मम । ( एवं ) पुनः सकलोऽप्यलीक एवायं प्रेम aisa धार्यतामिति तथैव प्रतिपादयति । सोऽयमित्यादि प्रागेव व्याख्यातम् ।
एवमेतत्, अन्तरवाक्यकदम्बकाभिव्यक्तयाभिनवभङ्गया पूर्वस्मात्स्वादादास्वादान्तरसम्पदं कामपि करुणस्य कुरुते ।
पञ्चमेऽङ्के–
राजा - (सविशेषोत्कण्ठं निश्वस्य )
भ्रूभङ्गं रुचिरे ललाटफलके तारं समारोपयेत् बाष्पाम्बुप्लुतपीतपत्ररचनां कुर्यात्कपोलस्थलीम् । व्यावृत्तैर्विनिबद्धचाटुमहिमामालोक्य लज्जानता तिष्ठेत् किं कृतकोपचार करुणैराश्वासयनां प्रियाम् ||२२|| अत्राधिगमप्रत्याशाऽसंभावितपद्मावतीपाणिपीडस्यानङ्कुरित मनोरथलेशस्यापि तत्कालकन्दलितौत्सुक्य परवशीकृतान्तःकरणवृत्तेरुन्मा