Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy

View full book text
Previous | Next

Page 619
________________ २३४ वक्रोक्तिजीवितम् लवः—पश्याम्येनमधुना प्रगल्भम् । सुमन्त्र : - ( ससंभ्रमम् ) वत्स, कुमारेणानेन जृम्भकास्त्रमभि मन्त्रितम् । चन्द्रकेतुः – आर्य, कः सन्देहः व्यतिकर इव भीमो वैद्युतस्तामसश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति । अभिलिखितमिवैतत् सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ।। १६ । आश्चर्यम् ( आश्चर्यम्) - पातालोदरकुञ्जपुञ्जिततमः श्यामैर्नभो जृम्भकेरुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दिीप्तिभिः | कल्पक्षेपकठोर भैरवम रुद्ध्वस्तैरवस्तीर्यं ते नीलाम्भोदतडित्कडारकुहरे विन्ध्याद्रिकूटैरिव ॥ १७ ॥ इत्यादि । एक एवायमेकदेशानामिति बहुवचनम् । अत्र द्वयोरपि बहूनामुपकार्योपकारकत्वं स्वयमुत्प्रेक्षणीयम् । एकप्रकरणप्राप्तप्रकारान्तरशोभितः । प्रबन्धो भासते नूत्नपरिस्पन्द इवोदितः ।। १८ । ( इत्यन्तरश्लोकः) । अस्या एव प्रकारान्तरं प्रकाशयति [४.७-८ प्रतिप्रकरणं प्रौढप्रतिभाभोगयोजितः । एक एवाभिधेयात्मा बध्यमानः पुनः पुनः ॥ ७॥ अन्यूननूतनोल्लेखर सालंकरणोज्ज्वलः । बध्नाति वक्रतोद्भेदभङ्गीमुत्पादिताद्भूताम् ॥ ८॥

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660