________________
२३०
वक्रोक्तिजीवितम्
[४.४
कालान्तरे तदन्तकारिणा कैवर्तनेन पुनरपि ( समर्पणम्) । एवंविधस्य संविधानकस्य रसनिधानकलशायमानस्य माहात्म्यादखिलस्यापि नाटकस्य कापि (विच्छित्तिः ) समये चञ्चरीकोपालम्भगर्भगीत्यवगमनात् मुनिशापापसारितप्रेयसीस्मृतेरपि तदधिवासवासनापि च परिस्फुरन्ती पौरवस्य पारवश्यं निश्चयामास । तथा च
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि ।। ९ ।।
अत्र संमुग्धसुभगमेनका नन्दिनीस्मरणले खालावण्यमन्यदेव चमत्कारकारणं सहृदयानां समुद्योतते । अपरं च परावर्तितायामपि व्यलीकमभिज्ञकं च महर्षिशिष्यसमाख्यातकरग्रहणगर्भाधानायां महामन्युसमुन्मेषः । मनागुल्लङ्घितसहजलज्जावता रतापसशीघ्रापनीतावगुण्ठनेन ( पराङ्गनारचित) तथाविधसकलललनालावण्यावलेपसंपदि संपादितविपञ्चीटङ्कारवल्गुवाग्विलासव्याहृतवनविहरणरहस्याभिज्ञायां भरतमातरि तथारूप प्रत्याख्यानपारुष्यमपि राज्ञः शापस्य संपत्स्यमानानुतापं परस्परं प्रकाशीभवदनर्गलानुरागप्राग्भारसङ्गादतीव सहृदयाह्लादकारि । शापावसानसमुत्पत्तये प्रसिद्धस्मरणसमुल्ला सिदुः सविरहज्वरपातावे गवि कलत्वं च समनन्तरमेवाङ्गुलीयसङ्गमादतीव सहृदयानाह्लादयति । नरपतेस्तत्र कञ्चुकिनो वचनम् -
प्रत्यादिष्टविशेष मण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ १०॥