________________
४.४]
चतुर्थोन्मेषः
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनविगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥११॥
अत्र राज्ञो विशेषणवक्रता, गोत्रेष्विति वचनवत्वं च किमपि चित्तचमत्कारकारि । राज्ञोऽपि स्वयंलिखितालेख्यालोकमानविलोचनस्य स्मरणात्मक दयितात्ममुद्रामुद्रितं सहृदयवचनम् ।
अक्लिष्टबालतरुपल्लवलोभनीयं
पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेत् भ्रमर प्रियायाः त्वां कारयामि कमलोदरबन्धनस्थम् ॥ १२ ॥
इत्युदित एवास्वादनीयः ।
२३१
अविद्यमाने पुनरेतस्मिन् उत्पाद्यलवलावण्यललाम्नि प्रकरणे निष्कारण विस्मरणवैरस्यमितिहासांशस्येव रूपकस्यापि विरूपकतापत्तिनिमित्ततामवगाहते ।
उत्पाद्यलवलावण्यादिति द्विधा व्याख्येयम् = यथा क्वचिदसदेवोत्पाद्यम्, क्वचिदौचित्यत्यक्तं सदध्यन्यथासंपाद्यम् सहृदयहृदयाह्लादनाय ।
तच्च प्रागेव व्याख्यातम्
1
यथोदात्तराघवे मारीचवधः । एवमन्यदप्यस्या वक्रताविच्छित्तेरुदाहरणं महाकविप्रबन्धेषु स्वय
मुत्प्रेक्षणीयम् ।
निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः ।
गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः ॥ १३ ॥
( इत्यन्तरश्लोकः । )