SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ २३२ वक्रोक्तिजीवितम् [४.५-६ अपरमपि प्रकरणवक्रताप्रकारमाविर्भावयति प्रबन्धस्यैकदेशानां फलबन्धानुबन्धवान् । उपकार्योपकर्तृत्वपरिस्पन्दः परिस्फुरन् ॥५॥ असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः । सूते नूतनवक्रत्वरहस्यं कस्यचित्कवेः ॥६॥ "सूते" समन्मीलयति । (किं) "नूतनवक्रत्वरहस्यं”–अभिनववक्रभावोपनिषदं । “कस्यचित्"- (न) सर्वस्य । “कवे:" - कवयितुः, प्रस्तुतौ (चित्य)चारुरचनाविचक्षणस्येति यावत् । क: "उपकार्योपकर्तृत्वपरिस्पन्दः”– अनुग्राह्यानुग्रहकत्वमहिमा। किं कुर्वन् "परिस्फुरन्'--समुन्मीलयन् । किविशिष्ट:- “फलबन्धानुबन्धवान्' = प्रधानकार्यानुसन्धानवान् कार्यानुसन्धाननिपुण(इति भावः)। कथमेवंविधस्य इत्याह-“असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः' निरुपमोन्मीलितशक्तिविभवभ्राजिष्णोः । केषां “प्रबन्धस्यैकदेशानां" =प्रकरणानाम् । तदिदमुक्तं भवति–प्रातिस्विकसंनिवेशशोभिनामपि प्रबन्धावयवानां प्रधानफलसंबन्धनिबन्धानुग्राह्यानुग्राहकभावः स्वभावसुभगप्रतिभाप्रकाश्यमान: कस्यचिद्विचक्षणस्य वकताचमत्कारिणः कवेरलौकिकं (कथाप्राणप्रौढिप्ररूढ) वक्रतोल्लेखलावण्यं समुल्लासयति । यथा पुष्पदूषितके द्वितीयेऽङ्के प्रस्थानात् प्रतिनिवृत्य निबिडानुरागात् (अन्धकारावृतायां) विभावर्याममन्दमदनोन्मादमुद्रेण समुद्रदत्तेन निजभार्यानिकेतनं तुल्यदिवसं नन्दयन्तीसंगमाय मलिम्लचेनेव प्रविशता प्रकम्पावेगविकलालसकायनिपातननिहतनिद्रस्य द्वारदेशशायिनः कलहायमानस्य कुवलयस्योत्कोचकारणं स्वकरादगुलीयकदानं यत् कृतं, तच्चतुर्थेऽके मथुराप्रतिनिवृत्तेन तेनैव श्वशुरस्य समावेदितसमुद्र
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy