SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ४.४] चतुर्थोन्मेषः २२९ प्रकारेण प्रकरणेन व्यवहरन कविः सकलकविरसिकपरिषत्परितोषणमावहति । प्रबन्धेऽपि प्रवरनवसंस्कारकारणरमणीयकान्तिपरिपोषः रेखाराजमानपुरातनत्रुटितचित्रदशास्पदसौभाग्यमनुभवति । अभिज्ञानशाकुन्तले नाटके इतरतरुणीतिरस्कारकारणाविरोधकत्वेनेक्षणक्षणाकलितललितलावण्यलक्ष्मीललाम निरुपमरूपरेखा सुखप्रत्यभिज्ञा समुज्जृम्भते । विस्रम्भसंभावनासनाथकथारहस्यरम्यपरस्परानुरूपप्रेमप्रकर्षप्रवर्तित चिरतरविचित्रविहरणव्यापारसुप्राप्तप्रत्यभिज्ञां तां शकुन्तलां प्रति दुष्यन्तस्य विस्मरणकारणमितिवृत्तागदितमपि अल्पमात्रापराधप्रवर्तमानक्रूरक्रुधः करुणापराङ्मुखस्य मुनेर्दुवासस: शापमुत्पादितवान् कविः । तत्र हि प्रकरणप्रकाण्डे शकुन्तला किल प्रथमप्रियप्रवासवासरवितीर्णविरहदुःसहदुःखावेशविवशान्तःकरणवृत्तिरुटज (संनिहिता) पर्याकुलेन प्राङ्गणप्रान्ते स्थिते (न) महर्षिणा मन्युसङ्गात्-- विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां स न बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ।। ८ ।। इत्थं शप्ता। तच्छवणपर्याकुलाभ्यां सखीभ्यां (अनुनीतः) प्रवास्यमानोऽपि मुनिप्रवर: प्रियतमन्यासाङ्गलीयकविलोकनं (शापा) वसाना (वधि) मकार्षीत् । प्रियं प्रति यायाश्च मुनिदुहितुरलंकृताङ्गली किसलयस्याङ्गलीयकस्य कुत्रचित् कुटिलतरतरङ्गिणीपयोवतारादन्तर्जलमलक्षितं परिभ्रष्टस्य ससंभ्रममदभ्रमरीचिमण्डलमाणिक्यसमुल्लसितसरसामिप विशंकाकुलशकलीकवलितस्य
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy