________________
२२८ वक्रोक्तिजीवितम्
[४.३-४ अत्रापि गुरुप्रदेयदक्षिणातिरिक्तं कार्तस्वरमप्रतिगृह्णतः कौत्सस्य, रघोरपि प्रार्थि तात् शतगणं सहस्रगणं वा प्रयच्छतः (परस्परं कलहायमानयो)निरवधि (नि)स्पृहत्वौदार्यसंपत् साकेतनिवासिनाम् अश्रुतपूर्वां कामपि महोत्सवमुद्रामाततान ।
एवमेषा महाकविप्रबन्धेषु प्रकरणवक्रताविच्छित्तिः रसनिष्यन्दिनी सहृदयैः स्वयमुत्प्रेक्षणीया। इमामेव प्रकारान्तरेण प्रकाशयति-- इतिवृत्तप्रयुक्तेऽपि कथावैचित्र्यवर्त्मनि । उत्पाद्यलवलावण्यादन्या लसति वक्रता ॥३॥ तथा यथा, प्रबन्धस्य सकलस्यापि जीवितम् ।
भाति प्रकरणं काष्ठाधिरूढरसनिर्भरम् ॥४॥ इतिवृत्तेति ।-"तथा उत्पाद्यलवलावण्यादन्या भवति वक्रता' = तेन प्रकारेण कृत्रिमसंविधानकामनीयकादलौकिकी वक्रभावभङ्गी समुज्जृम्भते सहृदयानावर्जयतीति यावत् । (कस्मिन्-) “कथावैचित्र्यवर्त्मनि"--काव्यस्य कथाविचित्रभावमार्गे। किंविशिष्टे "इतिवृत्तप्रयुक्तेऽपि"-इतिहासपरिग्रहेऽपि । तथेति यथाप्रयोगम पेक्षत अत आह- "यथा प्रबन्धस्य सकलस्यापि जीवितम् । भाति प्रकरणं" येन प्रकारेण सर्गबन्धादेः समग्रस्यापि प्राणप्रदं भासतेऽङ्गम् । कीदृग्भतं--"काष्ठाधिरूढरसनिर्भर (म्) =प्रथमधारोद्भासितशृङ्गारादिपरिपूर्णम् ।
तदयमत्र परमार्थ : =विख्यातविचित्ररुचिरकथाकरण्डकायमा(ने)महाभारतादौ रससमुद्रमुद्रितायामपि कथायां कस्यचिदुत्तराधरविच्छित्तिकारणविकल्पकाभावात्, सवि(शेष)रसभावजनका. श्चर्यजननकार्यजातानि अतिबन्धुरनिजप्रतिभासमुन्मीलितसमुचितनिरुपमाननिमित्तानि निबन्धनीयानीति । तदतिशयवक्रता