________________
२२६ वक्रोक्तिजीवितम्
[४.१ तथाहि-तत्र नीलस्य सेनापतेर्वचनम्
शैला: सन्ति सहस्रशः प्रतिदिशं वल्मीककल्पा इमे दोर्दण्डाश्च कठोरविक्रमरसक्रीडासमुत्कण्ठिताः । कर्णास्वादितकुम्भसंभवकथाः किं नाम कल्लोलिनी
कान्ते गोष्पदपूरणेऽपि कपय: कौतूहलं नास्ति वः ॥१॥ वानराणामुत्तरवाक्यं नेपथ्ये कलकलानन्तरम्
आन्दोल्यन्ते कति न गिरयः कन्दुकानन्दमुद्रां व्यातन्वाना: कपि परिसरे कौतुकोत्कर्षतर्षात् । लोपामुद्रापरिवृढकथाभिज्ञताप्यस्ति किं तु
व्रीडावेशः पवनतनयोच्छिष्टसंस्पर्शनेन ॥२॥ अत्रैव पवनतनयोच्छिष्टे अधिवाचिनि पर्यायवक्रताप्रकारः स्मर्तव्यः । आर्य, दुष्करोऽयमेभिर्मकराकरबन्धाध्यवसाय इति रामेण पर्यनयुक्तस्य जाम्बवतोऽपि वाक्यम्
अनङ्करितनिस्सीममनोरथपथेष्वपि ।
कृतिनः कृत्य संरम्भमारभन्ते जयन्ति च ॥३॥ एवंविधमपरमपि तत एव विभावनीयमभिनवाद्भुताभोगभङ्गीसुभगं सुभाषितसर्वस्वम् ।
यथा वा रघुवंशे पञ्चमे सर्गे चतुरु (द) धिकाञ्ची कलापालंकरणकाश्यपीपरिवृढस्य विश्वर्जिदाख्यमखदीक्षादक्षिणीकृतसमस्तसंपदः सहजौदार्यरहस्योदाहरणस्य रघोरर्घसंपादितमृण्मयपात्रसमालोकनसमुन्मलितमनोरथाडम्बरे वरतन्तोरन्तेवासिनि निषिद्धगमने मुनौ
" किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद्वेति " ॥४॥