________________
चतुर्थोन्मेषः
एवं सकलसाहित्यसर्वस्वकल्पवाक्यवत्रताप्रकाशनानन्तरमवसरप्राप्तां प्रकरणवक्रतामवतारयति -
यत्र नियंत्रणोत्साहपरिस्पन्दोपशोभिनी । प्र वृत्तिर्व्यवहर्तॄणां स्वाशयोल्लेखशालिनी ॥ १ ॥ अप्या मूलादनाशङ्कयसमुत्थाने मनोरथे । काप्युन्मीलति निःसीमा सा प्रबन्धांशवक्रता ॥ २ ॥
―――――――――――――
66
यत्रेत्यादि । प्रबन्धांश वक्रता" ( प्रकरण) वक्रभावो भवतीति सम्बन्धः । कीदृशी – “निःसीमा ” – निरवधिः, “ यत्र” – यस्यां " व्यवहर्तॄणां " - तत्तद्व्यापारपरिग्रहव्यग्राणां प्रवृत्तिः “ कापि ” अलौकिकी “ उन्मीलति ” - उद्भिद्यते । किंविशिष्टा – “ निर्यन्त्रणोत्साहपरिस्पन्दोपशोभिनी ” – निरर्गलव्यवसायस्फुरितस्फारविच्छित्तिः, अत एव " स्वाशयोल्लेखशालिनी " निरुपमनि (ज) हृदयोल्लासितालंकृतिः, कस्मिन् सति - " अप्या मूलादनाशङ्कयसमुत्थाने मनोरथे '”–कन्दात् प्रभृत्यसंभाव्यसमुद्भेदे समीहिते ।
तदयममत्रार्थ : - यत्र मना मात्र मप्यनुन्मीलितमनोरथे कथामध्ये निरुपधि मानधनानामध्यवसायपद्धति: निरन्तरव्यवसायातिस्फारा चेतनचमत्कारिणी तद्विहित वक्रता विच्छित्तिः प्रकरणस्या लंकरणायते, प्रबन्धस्य च । यथा अभि ज्ञान जानकीनाम्नि नाटके तृतीयेऽङ्के सेतुबन्धेऽनाकलितविद्या बलाना मविदितवं देहीदयित दिव्यास्त्र प्रभावसंपदां वानर प्रवीराणां प्रथममेव मकराकरमालोकयतां बन्धाध्यवसायः ।
15
"L
-