Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२१६
वक्रोक्तिजीवितम् . [३.५९ भिस्वइ शिशावे गुणा मुहा सर्वयन्ति अहणरइ तम् ।। २०७॥
(छाया?) यथा वा
कि सौन्दर्यमहार्थसञ्चितजगत्कोशैकरत्नं विधेः किं शृङ्गारसरस्सरोरुहमिदं स्यात्सौकुमार्यावधि । कि लावण्यपयोनिधेरभिनवं बिम्बं सुधादीधिते
वक्तुं कान्ततमाननं तव मया साम्यं न निश्चीयते ॥२०८।। ससन्देहस्यैकविधत्वमुत्प्रेक्षामूलकत्वात् ।
एवं स्वरूपसन्देहसुन्दरं ससन्देहमभिधाय स्वरूपापह्नवरमणीयामपह्नतिमभिधत्ते
अन्यदर्पयितुं रूपं वर्णनीयस्य वस्तुनः ।
स्वरूपापह्नव्वो यस्यामपह्नतिरसौ मता ॥ ५९॥ अन्यदित्यादि । पूर्ववदुत्प्रेक्षामूलत्वमेवास्याः । संभावनानुमानात् सादृश्यसमन्वयाच्च “वर्णनीयस्य वस्तुनः” = प्रस्तुतस्यार्थस्य, “अन्यत्” = किमप्यपूर्व, “रूपमर्पयितुम्” = रूपान्तरं समारोपयितुं, "स्वरूपापह्नवः” =स्वभावापलाप: संभवति, “यस्याम्” “असो" = एषा एवंविधभणितिरेव, “अपह्नतिः” “मता" = प्रतिभाता तद्विदाम् । यथा
भास्वानेष जगत्यशेषनयनं तेजस्विनामग्रणीः नायं कान्ततमाननाप्तसुरुचिर्नेत्रोत्सवश्चन्द्रमा: । पर्यायेण मनोभुवा विरहिणां वेद्ध मनो निर्दयं पुष्पेषन्नि शिताग्रतां विजयिनी नेतुं नियुक्तो मम ॥ २०९॥

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660