SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ २१६ वक्रोक्तिजीवितम् . [३.५९ भिस्वइ शिशावे गुणा मुहा सर्वयन्ति अहणरइ तम् ।। २०७॥ (छाया?) यथा वा कि सौन्दर्यमहार्थसञ्चितजगत्कोशैकरत्नं विधेः किं शृङ्गारसरस्सरोरुहमिदं स्यात्सौकुमार्यावधि । कि लावण्यपयोनिधेरभिनवं बिम्बं सुधादीधिते वक्तुं कान्ततमाननं तव मया साम्यं न निश्चीयते ॥२०८।। ससन्देहस्यैकविधत्वमुत्प्रेक्षामूलकत्वात् । एवं स्वरूपसन्देहसुन्दरं ससन्देहमभिधाय स्वरूपापह्नवरमणीयामपह्नतिमभिधत्ते अन्यदर्पयितुं रूपं वर्णनीयस्य वस्तुनः । स्वरूपापह्नव्वो यस्यामपह्नतिरसौ मता ॥ ५९॥ अन्यदित्यादि । पूर्ववदुत्प्रेक्षामूलत्वमेवास्याः । संभावनानुमानात् सादृश्यसमन्वयाच्च “वर्णनीयस्य वस्तुनः” = प्रस्तुतस्यार्थस्य, “अन्यत्” = किमप्यपूर्व, “रूपमर्पयितुम्” = रूपान्तरं समारोपयितुं, "स्वरूपापह्नवः” =स्वभावापलाप: संभवति, “यस्याम्” “असो" = एषा एवंविधभणितिरेव, “अपह्नतिः” “मता" = प्रतिभाता तद्विदाम् । यथा भास्वानेष जगत्यशेषनयनं तेजस्विनामग्रणीः नायं कान्ततमाननाप्तसुरुचिर्नेत्रोत्सवश्चन्द्रमा: । पर्यायेण मनोभुवा विरहिणां वेद्ध मनो निर्दयं पुष्पेषन्नि शिताग्रतां विजयिनी नेतुं नियुक्तो मम ॥ २०९॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy