SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ३.६०] तृतीयोन्मेष: स्वरूपेण धर्मिणः तादवस्थ्ये धर्ममात्रापह्नतिर्यथा तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगभैरग्निमिन्दुर्मयख । स्त्वमपि कुसुमबाणान् त्रज्ज्रसारीकरोषि ॥ २१० ॥ अत्र भणितिर्व चित्र्यवशादशाब्दम् अपह्नवप्रतिपादनं विहितम्, यस्माद्धर्मस्य कुसुमशरत्वादेः स्वभावसमुचितं सुकुमारकार्यकारित्वमपसायं तद्विरुद्धमतिकरालकार्यकारित्वमुपनिबद्धम् । क्वचिच्च सादृश्यसमन्वयादपह्नु तिर्यथा पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत् । मारस्योचितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगकहेवाकिनः ॥ २११ ॥ २१७ एवमलंकाराणां तन्त्रतया प्रत्येकमलंकार्यं प्रति विच्छित्तिविधायित्वमभिधायेदानीं समुदितानां तदेवाभिधत्ते ל राजन्ति यत्रालंकारा अन्योन्यान्वितवृत्तयः । = यथा पदार्था वाक्यार्थे संसृष्टिः साभिधीयते ॥ ६० ॥ राजन्तीत्यादि । " यत्र ' = यस्याम्,“ अलंकाराः ” = प्रस्तुतसंपदुपेताः सन्तः “ राजन्ति” शोभन्ते, “ संसृष्टिः साभिधीयते " संसृष्टिसंज्ञालंकृतिः सोच्यते । कथं राजन्तीत्याह ." यथा पदार्था वाक्यार्थे " == तात्पर्यलक्षणे वस्तुनि “ यथा " = येन प्रकारेण “ पदार्थाः " प्रवि भक्त स्वरूपाः वाक्यैकदेशभूतपदाभिधेयाः सन्तो वा स्वात्मना स्फुरन्तोऽपि परस्परान्वय लक्षण संबन्धनिबन्धनस्वभावाः प्रधाने हि पारतन्त्र्यमनुभवन्तस्तदेव समुदायात्मकमेक 66
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy