________________
२१८ वक्रोक्तिजीवितम्
[३.६१ वाक्यार्थतात्पर्य प्रतिपादयन्ति, तथा तेन प्रकारेण यदेतयोरविसंवादिसमवाये संबन्धितया संसृष्टावन्योन्यान्वितवृत्तयः परस्परसंबन्धावगतसामर्थ्यात् पृथग्भूतवाक्यार्थावयवैकदेशतिनोऽप्यलंकारा: कामपि सहृदयसंवेद्यपरस्परसंसर्गात्मतामेवं (व) सकलवाक्यार्थविषयां विच्छित्तिमुपपादयन्त: परतन्त्रा: परिस्फुरन्ति इत्यभिप्रायः । यथा
आश्लिष्टो नवकुङ्कमारुणरविव्यालोकितैविस्तृतो लम्बान्ताम्बरया समेत्य भुवने ध्यानान्तरे सन्ध्यया । चन्द्रांशत्करकोरकाकुलपतद्धान्तद्विरेफोऽधुना
देव्येवार्पितदोहदः कुरवके भाति प्रदोषागमः ।। २१२॥ अत्र रूपकादिना स्वात्मना पृथक्कृतकृत्येन परस्परससर्गसंपदुपाजिता वाक्यार्थवक्रताविच्छित्ति: काचिदेव परिस्फुरति । यथा वा
म्लानि वान्तविषानलेन नयनव्यापारलब्धात्मना नीता राजभुजङ्ग पल्लवमृदू रम्भा तथेयं त्वया । अद्यापीश्वरशेखरेन्दुकिरणस्मेरस्थलीलाञ्छिते
कैलासोपवने यथा सुगहने नैति प्ररोहं पुन: ॥२१३ ।। अत्र पूर्ववदेव रूपकादीनां परस्परसंसर्गसंपदुपार्जिता वक्रताविच्छित्ति: विभाव्यते।
एवं संसृष्टिमभिधाय तथाविधच्छायाविच्छित्तिविधायिनं संकरालंकारमभिधत्ते
[अलंकारकलापोऽयमन्यैः संकीर्णतां गतः । स्फुरननेकधा वाक्ये संकरः सोऽभिधीयते] ॥६१॥