________________
३.६१] तृतीयोन्मेषः
२१९ अलंकारेत्यादि । पूर्वोक्तलक्षणसमाक्रान्तवृत्तिः “अलकारकलापोऽयं" रसवदाद्यलंकारनिकुरम्बः “संकराख्योऽभिधीयते” संकरनामा निगद्यते। कीदृशः- “संकीर्णतां गतः" = संमिश्रतां प्राप्तः, सबलत्वेन प्रतिभासत्वमधिरूढः । किं कुर्वन्-“ स्फुरन्” =आत्मनः स्फुरितं समुपदर्शयन ... प्रतिभासमानतामुपसरन्, “वाक्ये" संकीर्णतामुपपद्यते । तत्संवेशनविशेषस्यानुपपत्तेः भणितान्तर्वर्ती यः कश्चिदलंकारो यथोपपत्ति विभषणान्तरेण संकीर्ण: संकर संज्ञाविषयतां प्रतिपद्यते । तेन सकलस्याप्यलंकारकलापस्य (संकर इत्यभिधानं संपद्यते)। यथा---
रोहन्मलातिगौरैरुरगपतिफणैस्तत्र पातालकुक्षौ प्रोद्यद्वालाङ कुरश्री: दिशि दिशि दशनैरेभिराशागजानाम् । अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः
सुधार्द्रम् ॥२१४ ।। अत्र कीर्तिवल्लीति रूपकालंकारः सिद्धबद्धतत्साम्याशङ्कां विना न युक्तियुक्ततां प्रतिपद्यते । तेन तदाशङ्कानिबन्धनतथाविधपरिस्पन्दकीर्तिसन्दर्शितसमुद्भततसंभावनानुमानमाहात्म्यात् प्रतीयमानवृत्तिरुत्प्रेक्षाऽत्र कवेरभिप्रेता। यस्मादेतयोर्द्वयोरपि परस्पर संभावनां विना स्वरूपलब्धिरेव न (पर्य) वस्यतीति, संकीर्णयोरथ संवादादेवंविधविषये संकरोक्तिः प्रवर्तते। वाक्यैकदेशे यथा “निर्मोकमक्तिरिव गगनोरगस्य” इति निष्कम्पतया व्यवहर्तुमशक्यत्वात्, निर्मोकमुक्तिरिवेत्युत्प्रेक्षया रूपकालंकारस्य स्वरूपलाभावकाश: (समर्प्यते)। तथैवोत्प्रेक्षायाः, यस्मादत्रापि संकरालंकारव्यवहारः।
ननु चानेन न्यायेन “अस्याः सर्गविधौ” इति “किं तारुण्यतरोः " इत्यादे: संकरालंकारोक्तिः प्रवर्तताम् ? न प्रवर्तते, यस्मादत्रा