________________
२२० वक्रोक्तिजीवितम्
[३.६२-६३ (र्थसामर्थ्यावगतो) त्प्रेक्षायाः ससन्देहं विनाऽनुपपत्तेः, परस्मिंश्च तथैव रूपकस्येति द्वयोरप्येतयोः तत्त्वं तुल्यम् । ससन्देहस्य पुनस्तद्विभूषणत्वेनान्तर्विधाने मणिमयपदकबन्धबन्धुरहारादिरमणीयत्वमित्युक्तमेव । संसृष्टेनानाविधच्छायमणिमालामनोहरता, संङ्करालंकारस्य विविधकान्तिरत्नविन्यासविचित्रबहुलातुलकान्तिकरूपत्वमिति सर्वमेव विभक्तम् ।।
एवं यथोपपत्त्यलंकारान् लक्षयित्वा केषांचिदलक्षितत्वात् लक्षणाव्याप्तिदोषं परिहर्तुमुपक्रमते ।
भूषणान्तरभावेन शोभाशून्यतया तथा ।
अलंकारास्तु ये केचिन्नालंकरतया मनाक् ॥६२ ॥ भूषणेत्यादि । “ये” =पूर्वोक्तव्यतिरिक्ता: “केचिदलंकाराः” ते “नालंकारतया मनाक् ” न विभषणत्वेनाभ्युपगताः । केन हेतुना "भूषणान्तरभावेन" = अन्यद्भ षणं “भूषणान्तरं”, तेभ्यो व्यतिरिक्तम् ; “तद्भावेन" = तत्स्वभावत्वेन तदनन्यत्वेन पूर्वोक्तानामेवान्यतमत्वेनेत्यर्थः । “शोभाशन्यतया तथा” =शोभा कान्तिः तया शून्यं रहितं शोभाशन्यं तस्य भाव: शोभाशन्यता तया हेतुभूतया । न केवलं ताभ्यामेव, यावदलंकार्यतया विभष्यत्वेनापि तेषामलंकरणत्वमनुपपन्नम् । एवं च
यथासंख्यमलंकारः पूर्वैराम्नात एव यः ।
कारणद्वितयेनापि नालंकारः स संमतः ॥६३॥ " यथासंख्यमलंकारः पूर्वैराम्नातः” तुल्य (क्रम) कैश्चित्स्वशब्देनाभिहितः स्वनाम्ना “स नालंकारः, कारणद्वितयेनापि” भूषणान्तरभावेन शोभाशून्यतया च । तथा च तस्योदाहरणम्
पद्मन्दुभृङ्गमातङ्गपुस्कोकिलकलापिनः ।। वक्त्रकान्तीक्षणगतिस्वरकेशस्त्वया जिता ॥२१५ ॥