________________
२२१
३.६३]
तृतीयोन्मेषः अत्रात्मकृतलक्ष्ये भणितिवैचित्र्यविरहात् न काचित् कान्तिर्विद्यते । सत्यामप्येतस्यां साम्यं व्यतिरेको वा जीवितमाम्नातं न पुन: समानसंख्यात्वम् । (केवल)समानसंख्यात्वे “यथासंख्यमनुदेशः समानाम्” इति सूत्रोदाहरणन्यायात् संख्यातानुदेशात् न किंचिदतिरिच्यते ।
केषांचिदाशी:प्रभृतीनामलंकारतया मतानां भूषणत्वानुपपत्तेः । आशिषस्तु लक्षणोदाहरणानि नेह पठ्यन्ते । तेषु चाशंसनीयस्यैवार्थस्य मुख्यतया वर्णनीयत्वादलंकार्यत्वमिति प्रेयोलङ्कारोक्तानि दूषणान्यापतन्ति ।
न प्रेयसो विरुद्धः स्यादलंकारान्तरे सति ।
संसृष्टिसंकरौ स्यातामन्यत्रादर्शनादपि ॥२१६ ।। (अन्तरश्लोकः ।) विशेषोक्तेरप्युक्तालंकारान्तर्भावेनालंकार्यतया च भषणत्वानपपत्ति: । तथा चोदाहरणमेतस्याः
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥२१७॥ अत्र सकललोकप्रसिद्धजयित्वव्यतिरेकिकन्दर्पस्वभावमात्रं लोकोतरत्वेन वाक्यार्थः । (एवं) सूक्ष्मलेशहेतवः (नालंकाराः । तथा च) भामहः -
हेतुश्च सूक्ष्मो लेशोऽथ नालंकारतया मतः ।
समुदायाभिधेयस्य वक्रोक्त्यनभिधानतः ॥२१८॥ तथा च सूक्ष्मस्योदाहरणम्
संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसनेत्रार्पिताकृतं लीलापमं निमीलितम् ॥२१९॥