________________
२२२
वक्रोक्तिजीवितम्
[३.६३
अत्र वर्णनीयात्मा सूक्ष्मो न पुनरलंकरणम्, कस्मात् - साक्षादभिधया वक्तव्यार्थस्तथाविधया युक्तया प्रतिपाद्यते ।
लेशस्योदाहरणं यथा
-
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः ।
अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् ॥ २२० ॥ अत्राप्येतदेव वक्तव्यं वस्तु कथं विभूषणतामर्हति ? । “यत्परः शब्दः स शब्दार्थ : " इति न्यायात् ।
हेतोरुदाहरणम् -
अयमान्दोलितप्रौढचन्दनद्रमपल्लवः ।
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २२१॥
एवमुपमारूपकमपि नालंकरणम् ।
समग्र गगनायाममानदण्डो रथाङ्गिनः । पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः ॥ २२२ ॥
अत्र रसवदलंकार (वत्) वाच्यवाचकयोः संगतिरेव नास्ति । तथा च उपमा च रूपकं चेति विग्रहे द्वन्द्वो वा विवक्षितः स्यात्, विशेषणसमासो वा । तत्र द्वन्द्वपक्षे क्वचिद्वाक्यैकदेशे रूपकं क्वचिदुपमेति (द्वितय) प्रणिबन्धनं न किंचिदेकस्मिन् । तत्रापि प्रत्येकं परिस्पन्दतया स्वस्थाने समं विभातीति परस्परापेक्षां विना समुदायात्मकस्य विशेष्यस्यासंभवात् द्वन्द्वपक्षोऽनुपपन्नः । विशेषण समासेऽपि सर्वस्मिन् वाक्ये, एकदेशे वा द्वितयमपीति द्वयोरेकस्मिन् वस्तुनि युगपत् परस्परविरुद्ध योश्छायातपयोरिव समावेशानुपपत्तिः । एकतरपक्षावलम्बिन्या वाचा प्रत्येकं वाच्यवाचकस्वरूपनिश्चितावपरस्यावकाशभङ्गोऽपि न सम्भवतीति परस्परापेक्षां विना समुदायात्मक विशेषणसमासोऽप्यकिचित्करः ।