SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ३.६४] तृतीयोन्मेषः २२३ कथंचित्तत्रैकतरनिश्चये प्रमाणाभावादन्यतरकल्पनेन दोषायोगात्संकरव्यवहारः। प्रस्तुते पुनरेवंविधस्वरूपनिष्पत्तावपि संसिद्धिविवक्षया यस्यात्मसिद्धावपि सन्देहदोलाधिरूढिस्तत्राप्यसम्भूताद्वस्तुतोऽव्यवस्थितैव कदाचिदस्तीति यत्किचिदेव वाक्यसामर्थ्यादवसेयः । प्रतीयमानप्रकारात्तृतीयं रमणीयमलंकरणकलापमिति वाक्यवक्रतासर्वस्वं समाख्येयम् । समुदायात्मकवाक्यवक्रतास्वरूपमासूत्रयति लावण्यादिगुणोज्ज्वला प्रतिपदन्यासर्विलासाञ्चिता विच्छित्त्या रचितैर्विभूषणभरैरल्पैर्मनोहारिणी । अत्यर्थं रसवत्तयाहृदया (शक्नोत्युदाराभिधा वाग्वका सुकवेस्तथैव च) मनो हर्तुं यथा नायिका ॥६४॥ लावण्यादीत्यादि । आसामेवंविधवाक्यस्वरूपायत्तावगमनोदाहरणं प्रवक्ष्यति । तत्समुदायात्मकस्य (वाक्यस्य) रसवत्तया (मन: चेतः) हर्तुं च शक्नोति यथा नायिका तथा । कीदृशी-" लावण्यादिगुणोज्ज्वला" (लावण्यादिभिः) लावण्यप्रभृतिभि: "गुणैः" प्रथमोल्लेखलक्षणैर्गुणैः “उज्ज्वला" भ्राजिष्णु: "प्रतिपदन्यास:" "प्रतिपदन्यासः' प्रतिसुतिङन्तोपनिबन्धनानि, तै: “विलासाञ्चिता" शोभातिशयेनाभ्यञ्चिता “विच्छित्त्या" वैदग्ध्यभङ्गया कयाचित् “रचितैः” उपनिबद्धः “अल्पैः" परिमितः (विभषणभरैः) अलंकरणरुपमादिभिः, “मनोहारिणी" हृदयरञ्जिका वाक् विच्छित्तिविहितपरिमितालंकरणविन्यासा शोभातिशयनिधानतां प्रतिपद्यते। कीदृशी वाक्-"उदाराभिधा" औदार्यगुणयुक्ताभिहिता । “अत्यर्थं रसवत्तया" रागादिमत्त्वेन "आर्द्रहृदया" सरसाभिप्राया कान्तापि तथाविधविलासाञ्चिता भवति । नायिकापक्षे लावण्यादयः सौन्दर्यप्रभृतयः, पदन्यासः पादविक्षेपः,
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy