________________
३.५८] तृतीयोन्मेषः
२१५ तदेवमसंभाव्यकारणत्वादविभाव्यमानस्वभावां विभावनां विचार्य विचारगोचरस्वरूपतया स्वरूपसन्देहसमर्पितातिशयं ससन्देहमभिधत्ते
यस्मिन्नुत्प्रेक्षितं रूपमुत्प्रेक्षान्तरसंभवात् ।
सन्देहमेति विच्छित्त्यै ससन्देहं वदन्ति तम् ॥५८॥ यस्मिन्नित्यादि। “यस्मिन् ” =अलकारे, “ उत्प्रेक्षितं” संभावनानुमानात् साम्यसमन्वयाच्च स्वरूपान्तरसमारोपद्वारेण प्रतिभोल्लेखितं “रूप” पदार्थपरिस्पन्दलक्षणं “ सन्देहमेति” संशयं समा रोहति । कस्मात् कारणात्-“ उत्प्रेक्षान्तरसं भवात् ”-उत्प्रेक्षाप्रकर्षपरस्यापरस्यापि तद्विषयस्य सद्भावात् । किमर्थं – “विच्छित्त्यै” =शोभाय । तदेवमभिधावैचित्र्यं ससन्देहाभिधानं वदन्ति । यथा
रञ्जिता न विविधास्तरुशलाः नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥२०५॥
यथा वा
निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे । २०६॥
यथा वा--
अविभाविअछरभअंजवइण जणत्समयमन्थरं हि अवरम् ।