________________
२१४ वक्रोक्तिजीवितम्
[३.५७ हेताविति। “हेतौ” हेतुवाचिनि हिशब्दादौ “सति” संभवति = प्रमुज्यमाने, “अथवा” कदाचित्, “असति” असंभवति–अप्रयुज्यमाने । एवं (हेतोरभिधानेनानभिधानेन) वार्थान्तरन्यासः प्रकारद्वयेन विद्यते । अर्थान्तरन्यासमात्रमभिभूषणमित्यर्थः । निदर्शनजातमत्र पूर्वोक्तव्यतिरेकि न प्रदर्शितम्, तस्मात्स्वयमेवोत्प्रेक्षणीयम् ।
एवं स्वरूपविशेषप्रतिषेधबोधितछायातिशयमलंकरणमभिधाय कारणप्रतिषेधोत्तेजित(छाया)तिशयमभिधत्ते
स्वकारणपरित्यागपूर्वकं कान्तिपुष्टये ।
भावनार्थस्य केनापि विशेषेण विभावना ॥५७॥ स्वकारणेत्यादि । “अर्थस्य” वर्णनीयस्य = प्रस्तुतस्य, “विशेषेण केनापि” अलौकिकेन रूपान्तरेण “भावना"=“विभावना" विभावनेत्यलंकृतिरभिधीयते । तदयमत्रार्थः-या विना भाव्यते, का सा? तत्समर्थकारणरूपप्रयोजकव्यापारलक्षणां कियां (विना भाव्यते सा) विभावना । “स्वकारणपरित्यागपूर्वकम्” =तस्य विशेषस्य स्वमात्मीयं कारणं यन्निमित्तं तस्य परित्याग: प्रहाणं पूर्व प्रथमं यत्र तत्कृतेत्यर्थः । किमर्थं “कान्तिपुष्टये" शोभा(वृद्धये)। तदिदमक्तं भवति-यथा लोकोत्तरविशिष्टतां वर्णनीयं नीयते इति । यथा
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं साऽथ वय: प्रपेदे ॥२०४॥ अत्र कृत्रिमकारणपरित्यागपूर्वकं लोकोत्तरसहजविशेषविशिष्टता वर्णनीयस्य कवेरभिप्रेता ।