________________
३.५६] तृतीयोन्मेषः
२१३ विच्छित्त्या। किमर्थम् ? “कान्तिं प्रथयितुं परां” = प्रकृष्टामुपशोभां प्रकटयितुम् । यथा___ सुहअ विलंवसु थोरं जाव इमं विरहकाअरं हिअ । संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ॥२०३।। सुभग विलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम् ।
संस्थाप्य भणिष्याम्यथवापक्रम किं भणामः। (इति छाया) अत्र वाक्यार्थ:
सुभगेति बहुवल्लभताप्रतिपादनपरमामन्त्रणपदम् । (नायिकाप्रतिवचनं) नासूत्रितम्, (तद्धि) साक्षादभिधीयमानतया न तथा चेतनचमत्कारितां प्रतिपद्यते, यथैतदाक्षेपमात्रं भणितिवैचित्र्येण प्रतीयमानतया नियमात् तद्विदाह्लादविधायित्वं पुष्णाति । तदेवमाक्षेपस्वरूपमभिधाय साधारणवक्तव्यशेषमेतेषामभिधत्ते--
वक्ष्यमाणोक्तविषयाः संभवन्ति विवक्षया । दृष्टान्ताद्यास्त्रयोऽप्येते हेतौ सत्यथवाऽसति ॥५६॥
वक्ष्यमाणेत्यादि। वक्ष्यमाणोक्तौ विषयौ येषां ते वक्ष्यमाणोक्तविषयाः, “दृष्टान्ताद्या:” दृष्टान्तप्रभृतयश्च “त्रयोऽप्यते” अभिधास्यमानाभिहितगोचरा: संभवन्तीति संबन्ध: । केन हेतुना“विवक्षया" =वक्तुमिच्छया-कवेर्यथाप्रतिभासमभिधातुं वाञ्छया। तदिदमत्र तात्पर्यम्-यदा संनिवेशवैचित्र्यमात्रमेतन्न पुनरत्र लक्षणातिरेकः कश्चिदस्ति । मध्यमस्य विशेषान्तरमभिधातुमाह
"हेतौ सत्यथवासति"