________________
२१२
वक्रोक्तिजीवितम्
[३.५५ वाक्यार्थेत्यादि । “ज्ञेयः सोऽर्थान्तरन्यासः” = (अर्थान्तरन्यास)नामालंकारो "ज्ञेयः” =परिज्ञातव्य: । कीदृश:-“वाक्यार्थान्तरविन्यासः” = परस्परान्वितपदसमुदायाभिधेयं वस्तु वाक्यार्थः तस्मादन्यस्मात् = अप्रकृतत्वात् प्रस्तुतव्यतिरेकि वाक्यार्थान्तरं, तस्य “विन्यासः” = विशिष्टं न्यसनं = तद्विदाह्लादकारितयोपनिबन्धः । कस्मात् कारणात् “मुख्यतात्पर्य साम्यत:”, “मुख्यं” =प्रस्तावाधिकृतत्वात् प्रधानभूतं वस्तु, तस्य “तात्पर्यं" =यत्परत्वेन तत्संमतं, तस्य “साम्यतः” = सादृश्यात् । कथं “सम (पकत)याहितः” = समर्पकत्वेनोपनिबद्धः, तदुपपत्तियोजनेनेति यावत् ।
अत्र सामान्य समर्थनीये विशेष: समर्थको, विशेषे वा सामान्यं, (त)यो: परस्पराव्यभिचारात् । यथा
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुष
प्रमाणमन्त:करणप्रवृत्तयः' ।।२०१॥ यथा वा_ “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” ॥२०२॥ एवमर्थान्तरन्यासमभिधाय (तत्समानच्छायं विशेषविषयवा) क्यसमन्वयादाक्षेपमभिधत्ते
निषेधच्छाययाक्षेपः कान्तिं प्रथयितुं पराम् ।
आक्षेप इति स ज्ञेयः प्रस्तुतस्यैव वस्तुनः ॥५५॥ निषेधच्छाययेत्यादि । “आक्षेप इति स ज्ञेयः” =सोऽयमाक्षेपालंकारो ज्ञातव्यः । स कीदृश:-"प्रस्तुतस्यैव वस्तुन: आक्षेपः”== प्रकृतस्यैवार्थस्य आक्षेपः = अपाकरणम् = अभिप्रेतस्यार्थस्यापि निवर्तनमिति (यावत्) । कया ? “निषेधच्छायया” =प्रतिषेध