________________
३.५३-५४]
तृतीयोन्मेषः
२११
इत्यन्तरश्लोकः ।
एवं गुणभतादपि स्वरूपोत्कर्षमाहात्म्यादलंकारसामान्यस्वभावात् कांश्चिदलंकारानभिधायेदानी विभूषणत्वादेव तथाविधान गुणभूतानुपक्रमते । तत्र दृष्टान्तं तावदभिधत्ते
वस्तुसाम्यं समाश्रित्य यदन्यस्योपदर्शनम् ।
इवाद्यसंभवे तत्र दृष्टान्तः सोऽभिधीयते ।। ५३॥ वस्तुसाम्येत्यादि “यदन्यस्य” (“ यस्मात् ") वात् प्रस्तुतात् “अन्यस्य” व्यतिरिक्तवृत्तेः पदार्थान्तरस्य “उपदर्शनम्” = उपनिबन्धनं स दृष्टान्तनामालंकारोऽभिधीयते । कथं “वस्तुसाम्यं समाश्रित्य” “वस्तुनोः” पदार्थयोः दृष्टान्तदाान्तिकयोः “साम्यं" सादृश्यं “समाश्रित्य” निमित्तीकृत्य । लिङ्गसंख्याविभक्तिस्वरूपलक्षणसाम्यवजितमिति (बोधनार्थ) वस्तुग्रहणम् । “तत्र" उपान्ते “इवाद्यसंभवे” सादृश्याभिधायिनामिवप्रभृतीनां विरहे । तदेवमुपमाया: वाचकमग्रे व्यतिरिच्यते । यथा
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥२०० ।। (अत्र) पादत्रयमेवोदाहरणं, चतुर्थे भूषणान्तरसंभवात् ।
दृष्टान्तमभिधाय तत्संबद्धविभूषणप्रस्तावात् समानच्छायमर्थान्तरन्यासमभिधत्ते ।
वाक्यार्थान्तरविन्यासो मुख्यतात्पर्यसाम्यतः । ज्ञेयः सोऽर्थान्तरन्यासः यः समर्पकतयाहितः ॥५४॥