________________
२१०
वक्रोक्तिजीवितम्
[३.५२
वाक्यं (वाचक)मिति प्रतीयते । यथा वा
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी।।
रामा रम्या वनोद्देशे मया विरहिता त्वया ॥१९८॥ अत्र प्रधानभूतविप्रलम्भशृङ्गाररसपरिपोष (विच्छित्त)ये वाक्यार्थद्वयमुप निबद्धम् ।
ननु चानेकार्थसंभवेऽत्र श्लेषानप्रवेशः कथं न भवतीति ? अभिधीयते । तत्र यस्मात् द्वयोरेकतरस्य वा मुख्यभावे श्लेषः, अत्र पुनस्तथाविधाभावात्, बहूनां द्वयोर्वा सर्वेषां गुणभाव: प्रधानार्थपरत्वेना वसानात् । अन्यच्च तस्मिन्नेकेनैव शब्देन युगपत् प्रदीपप्रकाशवदर्थद्वय प्रकाशनं शब्दार्थद्वय प्रकाशनं वेति शाब्द स्तत्र सामान्यार्थो विज़म्भते । सहोक्तौ पुनस्तथाविधस्याङ्गभावादेकेन (व) वाक्येन पुनःपुनरावर्तमानतया वस्त्वन्तरप्रकाशनं विधीयते, तस्मादावृत्तिरत्र' शब्द (स्य) प्राधान्यतां प्रतिपद्यते । (यदि) “सर्वक्षितिभृतां नाथ” इत्यत्र वाक्यैकदेशे श्लेषानुप्रवेशः संभवतीत्युच्यते, तथापि न कश्चिद्दोषः, यस्मादलंकरणमलंकरणान्तरं क्वचिदङ्गभावं गमयतीति । अत्र वाक्यैकदेशे श्लेषस्याङ्गत्वं, मुख्यभावः पुनः सहोक्तेरेव । (ननु) तदेवमावृत्त्या वस्त्वन्तरावगतौ सहोक्तेः सहभावाभावादर्थान्वये परिहाणिः प्रसज्यते, नैतदस्ति । यस्मात् सहोक्तिरित्युक्तम्, न पुनः सहप्रतिपत्तिरिति । तेनात्यन्तसहभावाभिधानमेव (सं) प्रतिपन्नमुत्कर्षावगतेरिति न किंचिदसंबद्धम् ।
कैश्चिदेषा समासोक्ति: सहोक्तिः कैश्चिदुच्यते । अर्थान्वयात्सा विद्वद्भिरन्यैरन्यत्वमेतयोः ॥ १९९ ।।