________________
२०९
३.५२]
तृतीयोन्मेषः नीयार्थसिद्धये” = “वर्णनीयस्य”– प्रधानत्वेन विवक्षितस्यार्थस्य “सिद्धये” =संपत्तये । तदिदमुक्तं भवति–यत्र वाक्यान्तरवक्तव्यमपि वस्तु प्रस्तुतार्थनिष्पत्तये विच्छित्त्या तेनैव वाक्येनाभिधीयते । यथा
हे हस्त दक्षिण मृतस्य शिशोद्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य पाणिरसि निर्भरगर्भखिन्न
देवीविवासनपटो: करुणा कुतस्ते ॥ १९५ ।। अत्र मुख्यार्थसिद्धये यद् (वाक्यांन्तरा)भिधेयं वस्तु विच्छित्त्या तदेकेनैव (वाक्येनो)पनिबद्धम्। यदि च न्याय्यत्वा दवश्यं करणीयमपि निकृतिलक्षणं वस्तु करुणास्पदत्वादकरणीयकल्पं (तथापि) नवो पेक्षणीयानुष्ठानम् ; निर्भरगर्भखिन्नदेवीविवासनपटो: दाशरथे: पाणिरसीत्युचितानुरोधित्वात् कुतस्ते करुणा(संभवः) तदवध्यस्यापि शूद्रमुनेः ब्राह्मणशिशुजीवितरक्षणाय मण्डलाग्रं समर्पयेत्येकं वस्तु । द्वितीयं, यदि न्याय्यमवश्यकरणीयमपि तथाविधकारुणिकत्वादुदारचेतसा न करणीयमेवेति मन्यसे, तथापि रामस्य निर्भरगर्भखिन्नदेवीविवासनपटो: निष्करुणचूडामणेः करस्त्वमिति मुनिमारणं कियन्मानं तवेति विप्रलम्भशृङ्गारपरिपोषात् किमपि रामशब्दस्य रूढिवैचित्र्यवक्रत्वमुभयत्रापि स्फुरति । तथा च – उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥ १९६ ।। किं गतेन न हि युक्तमुपेतुं क: प्रिये सुभगमानिनि मानः ।
योषितामिति कथासु समेतः कामिभिर्बहुरसा धृतिरूहे ॥१९७।। अत्र विच्छित्त्या तात्पर्यार्थवाचकमुपनिबद्धम् । तथाहि-नायिकाया: सख्याश्चावबद्धयोरपि प्रत्येक वल्लभतत्सन्धानप्रवणतया सकलमेव