________________
२०८
वक्रोक्तिजीवितम्
[३.५२
अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः।।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥ १९२॥ अत्र सन्ध्यादिवसयोर्मुख्यतया प्रस्तुतत्वेन, समानविशेषणप्रस्तुतकान्ता वृत्तान्तप्रतीतिः प्रस्तुतयोः साम्यसमन्वयात्तथाभावं समर्पयन्ती प्रतीयमानोपमास्वरूपं नाति वर्तते । कान्तावृत्तान्तस्य वा मुख्यतया प्रतीयमानत्वे सन्ध्यादिवसयो रुप दिश्यमानत्वमित्यप्रस्तुतप्रशंसैव ।
“सहोक्तिश्च नालंकारतया मता” पूर्वोक्तेनैव हेतुद्वयेन । तथा च लक्षणमुदाहरणं चैतस्याः -
तुल्यकालकिये यत्र वस्तुद्वयसमाश्रये । वाक्येनकेन कथ्येते सा सहोक्तिर्मता यथा ॥ १९३।। हिमपाताविलदिशो गाढालिङ्गनहेतवः ।
वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह ॥ १९४ ।। अत्र परस्परसाम्यसमन्वयो मनोहारितानिबन्ध (न)मित्युपमैव तदभावे, “शिष्येण सहोपाध्यायः पठति", "पुत्रेण सह पिता तिष्ठति"इत्यादौ शोभाशून्यत्वेऽपि सा स्यात् ।
तदेवमेतयो: युक्तियुक्तमलंकरणत्वमपसार्य प्रमाणोपपन्नमभिधत्ते । तत्र सहोक्तेस्तावत्
यत्रैकेनैव वाक्येन वर्णनीयार्थसिद्धये ।
उक्तियुगपदर्थानां सा सहोक्तिः सतां मता ॥५२॥ यत्रेत्यादि। सा सहोक्तिरलंकृतिः, “मता" - प्रतिभाता, “सतां" तद्विदां संमतेत्यर्थः । कीदृशी-“यत्र” = यस्यां, “एकेनैव वाक्येन” अभिन्नेनैव पदसमहेन “अर्थानां” वाक्यार्थतात्पर्यभूतानां वस्तूनां “युगपत्” = तुल्यकालम् “उक्तिः” =अभिहिति: । किमर्थं–“वर्ण