________________
३.५१]
तृतीयोन्मेषः
२०७
तथा च लक्षणोदाहरणे -- यत्रोक्तेर्गम्यतेऽन्योऽर्थस्तत्समानविशेषणः । सा समासोक्तिरुदिता संक्षिप्तार्थतया यथा ॥१९॥ स्कन्धवान् ऋजुरव्याल: स्थिरोऽनेकमहाफल: । जातस्तरुरयं चोच्चै: पातितश्च नभस्वता ॥ १९१॥
अत्र तरोः महापुरुषस्य च द्वयो रपि मुख्यत्वे महापुरुषपक्षे विशेषणानि सन्तीति विशेष्याभिधायि पदान्तरमभिधातव्यम् । अथवा' विशेषणान्यथा नुपपत्त्या प्रतीयमानतया विशेष्यं परिकल्प्यते । तदेवंविधकल्पनस्य स्फुरितं न किंचिदिति स्फुटमेव शोभाशन्यता। तथाविधस्वभावयोरनयोः प्राधान्येनैकवाक्यो पावरोहयुक्तिरभिधेया, यतः परस्पराभिधानसंबन्धं विना न किंचिदेतदुपपद्यते । न च कामरिपोर्मूतिरुमा वा जगत् पायादित्यनेन न्यायेन तयोः सङ्गतिर्घटते, यस्मात्तत्र द्वयोरपि परमेश्वरयोः पालनसामोपपत्तेः तथाविधस्याप्यर्थस्याप्युचितत्वेनाशंसनीयत्वातथाविधशब्दवाच्यत्वान्न किंचिदनुपपन्नम् । एतस्मिन् पुनः परस्पराभिसंबन्धं विना तुल्य काल मेकवाक्योपावरोहे न किंचिन्निबन्धनमिति यत्किचिदेतत् ।
अथ तथा कश्चिदेवंविधो विधिना पुमान् पातितः , यथायं नभस्वता तरु: इत्याश्रीयते, तदेवं स्फुटमेवोपमानोपमेयभावः। तस्मादलंकारान्त (रान्त)ीवः (केन) वार्यते । यदि वा महापुरुषस्य प्रतीयमान (त्वे), वाच्यतया तरुरुपपद्यते, तदेवमप्रस्तुतप्रशंसैषा। तस्मात्पुनरपि तदेव व्यवस्थितम् । विशेषणा (ना)मुभयार्थत्वे श्लेषानुप्रवेशो दुनिवारः (इति) तेनापि तदेवापतति । निदर्शनान्तरमपि समासोक्तेः पृथक्कृतनिबन्धनं यथा