________________
२०६ वक्रोक्तिजीवितम्
[३.५१ विरोधेत्यादि । योऽलंकारः परस्परविरुद्धार्थप्रतीत्या. “विरुद्धार्थवाचिनां” विरुद्धवस्तुवचनानां युक्तियुक्ततामुल्लिखति तदभिधायिना पदान्तरेण अर्थसामर्थ्येन वा समर्पयन युक्तया प्रकारेणोपपद्यमानतया सङ्गतिं विदधाति । तस्य पदार्थत्वात समन्वयं करोति विरोधाभिधान: स भण्यते । यथा ।
“कुपतिमपि कलत्रवल्लभम्, महादोषमपि सकलकलाधि
ष्ठानम्” ॥ १८७॥ अत्र “अपि” शब्देन विरोधप्रतिपत्तिः । क्वचिदर्थसामथुन विरोध: प्रतीयते । यथा
“गौर्यादि भवता” ॥ १८८।। श्लेषादिसंभेदेऽपि विरोधः संभवति । यथा
"मउलावर्तान्तमते विचित्तोयरे अणं अपरिहत्वेन परि लंचितकमन्ता विसेससाहोति अहं ।” (?) ॥ १८९॥ रूपकादिष्वप्यते भेदा: संभवन्तीति स्वयमत्प्रेक्षणीयम् । एवं विरोधं विचार्य समासोक्त्यादेविरोधच्छायानुप्रवेशप्रसङ्गतः तद्विचारमारचयति
समासोक्तिः सहोक्तिश्च नालंकारतया मता।
अलंकारान्तरत्वेन शोभाशून्यतया तथा ॥५१॥ समासोक्तिरित्यादि । येयं “समासोक्ति :” अलंकृतिर (भिहिता) (सा) “नालंकारतया मता” न विभूषणभावेन प्रतिभाता, यस्मात् पृथङ् नोपपद्यते । केन हेतुना “अलंकारान्तरत्वेन” विभूषणान्तरभावेन । “शोभाशन्यतया तथा” कान्तिरहितत्वेन च । तदिदमुक्तं भवति–यदि रामणीयकत्वं संभवति प्रकरान्तरविहिते तस्मिन् भूषणान्तरेऽन्तर्भवति । रमणीयत्वाभावे शोभाशन्यत्वं पर्यवस्यति तस्याः ।