________________
१७१
३.२७]
तृतीयोन्मेषः तण्णत्थि किंपि पइणो पकप्पिअं जंण णिअइ घरणीए । अणवरअगअणसीलस्स कालपहिअस्स पाहिज्जं ॥९९ ।। तन्नास्ति किर्माप पत्युः प्रकल्पितं यन्न नियतिगेहिन्या ।
अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ॥ (छाया) अत्र साम्यं, निमित्तनिमित्तिभावः, सामान्यविशेषभावश्चेति त्रितयमपि अन्तर्भावयितुं युज्यते । यस्मात् प्रहस्तवधे श्रावयितव्ये साक्षादभिधा नानुचितत्वात् विच्छित्त्येवमभिधीयते । तदेवमयमप्रस्तुतप्रशंसाव्यवहारः कवीनामतिविततप्रपञ्चः परिदृश्यते । तस्मात् सहृदयश्च स्वयमेवोत्प्रेक्षणीय: । प्रशंसाशब्दोऽत्रार्थप्रकाशादिवत् विपरीतलक्षणया गर्दायामपि वर्तते। वर्णना सामान्यमात्रवृत्तिर्वा ।
एवमप्रस्तुतप्रशंसां विचार्य विवक्षितार्थप्रतिपादनाय प्रकारान्तराभिधानत्वादनयैव समच्छायप्रायं पर्यायोक्तं विचारयति
यद्वाक्यान्तरवक्तव्यं तदन्येन समर्प्यते ।
येनोपशोभानिष्पत्त्यै पर्यायोक्तं तदुच्यते ॥२७॥ यद्वाक्यान्तरेत्यादि-“पर्यायोक्तं तदुच्यते" = पर्यायोक्ताभिधानमलंकरणं तदभिधीयते । “यद्वाक्यान्तरवक्तव्यं'' = वस्तु वाक्यार्थलक्षणं पदसमुदायान्तराभिधेयं “तदन्येन" = वाक्यान्तरेण येन "समर्प्यते" - प्रतिपाद्यते । किमर्थम् ? "उपशोभानिष्पत्त्यै" = विच्छित्ति (विशेष) संपत्तये । तत्पर्यायोक्तमित्यर्थः । नन्वेवं पर्यायवक्रत्वात् किमत्रातिरिच्यते? पर्यायवक्रत्वस्य पदार्थमात्रं वाच्यतया विषयः, पर्यायोक्तस्य पुनर्वाक्यार्थोऽप्यङ्गतयेति तस्मात् पृथगभिधीयते । उदाहरणं यथा
चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।