________________
१७२
वक्रोक्तिजीवितम्
[३.२८ आलिङ्गनोद्दामविलासवन्ध्यं
रतोत्सवं चुम्बनमात्रशेषम् इति ।। १०० ।। एवम्
यत्र वाच्यतया निन्दा विच्छित्त्यै प्रस्तुतस्य सा।
स्तुतिर्व्यङ्गयतया चैव व्याजस्तुतिरसौ मता ॥२८॥ 'यत्र' = यस्यां, ‘वाच्यतया' =शब्दाभिधेयत्वेन 'निन्दा' = गर्दा, 'व्यङ्गयतया स्तुतिः' = प्रतीयमानत्वेन प्रशंसा 'प्रस्तुतस्य विच्छित्त्यै' = शोभाय, तदेवमसौ द्विप्रकारा व्याजस्तुतिः' अलंकृतिः 'मता' =स्मृता। यथा
भूभारोद्वहनाय शेषशिरसां सार्थेन संनद्यते विश्वस्य स्थितये स्वयं स भगवान् जागति देवो हरिः । अद्याप्यत्र च नाभिमानमसमं राजंस्त्वया तन्वता विश्रान्तिःक्षणमेकमेव न तयोर्जातेति कोऽयं क्रमः ॥१०१॥
यथा वा
इन्दोर्लक्ष्म ॥१०२॥ इत्यादि । विपर्यये विभूष्यस्यालंकृतिरेषेव विहिता। यथा
हे हेलाजित ॥१०३॥ इत्यादि । यथा वा
नामाप्यन्यतरोः ॥१०४॥ इति । यथा वा
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकप हे परम्पकृतं वक्तुं रोषं ह्रिया न वयं क्षमाः । भवतु सुकृतैरध्वन्यानामशोषजलो भवानियमपि पुनश्छायाभूया तवोपतटं शमी ॥१०५॥