SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ३.२९-३१] तृतीयोन्मेषः १७३ अत्र स्तुतिशब्दः पूर्ववद्विपरीतलक्षणया निन्दायामपि वर्तते । एवं व्याजस्तुति व्याख्याय प्रक्रमोपसंहारानन्यत्वसामान्यात् अनयोप(मा) समानकक्ष्यां (उत्प्रेक्षां ) विवक्षुराह - संभावनानुमानेन सादृश्येनोमयेन वा । निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया ।। २९ । वाच्यवाचकसामर्थ्याक्षिप्तस्वार्थैरिवादिभिः । तदिवेति तदेवेति वादिभिर्वाचकं विना ॥ ३० ॥ " समुल्लिखितवाक्यार्थव्यतिरिक्तार्थयोजनम् । उत्प्रेक्षा, (काव्यतत्त्वज्ञैरलङ्करणमुच्यते ) ॥ ३१ ॥ संभावनेत्यादि । "समुल्लिखितवाक्यार्थ व्यतिरिक्तार्थ योजनमुत्प्रेक्षा" - " समुल्लिखितः " - सम्यगुल्लिखित: स्वाभाविकत्वेन समर्पयितुं प्रस्तावितः । " वाक्यार्थः " - पदसमुदायाभिधेयं वस्तु, तस्माद् "व्यतिरिक्तस्यार्थस्य " - वाक्यान्तर तात्पर्यलक्षणस्य, "योजनम् ” – उपपादनम् । " उत्प्रेक्षा " - उत्प्रेक्षा भिधानमलंकरणम् । उत्प्रेक्षणमुत्प्रेक्षेति विगृह्यते । (के)न साधनेनेत्याह -" संभावनानुमानेन " संभावनया यदनुमानं, संभाव्यमानस्यार्थस्य ऊहनं तेन । तदवश्यं तस्य वस्त्वन्तरत्वापादनं तत्समानकार्यदर्शनादिति भावः । । प्रकारान्तरेणाप्येषा संभवतीत्याह - सादृश्येनेति । " सादृश्येन” - साम्येनापि हेतुना "समुल्लिखितवाक्यार्थ व्यतिरिक्तार्थयोजनम् ” उत्प्रेक्षैव । द्विविधं सादृश्यं संभवति वास्तवं काल्पनिकं चेति । तत्र वास्तवमुपमादिविषयम्, काल्पनिकमिहाश्रीयते, सातिशयत्वेन प्रस्तावात् । सादृश्यस्योभयाश्रयत्वाविनाभावात् प्रस्तुतव्यतिरिक्तस्य पदार्थान्तरस्यासंभवात्, तस्य च धर्मत्वे सति पराश्रित
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy