________________
१७४ वक्रोक्तिजीवितम्
३.३१] त्वात् केवलस्य कल्प्य (त्व)मेवानुपपन्नमिति तदाश्रयः कश्चिदपरः कल्पनीयः । सोऽपि कोऽसाविति नियमासिद्धिः। एकस्य कस्यापि कल्पनेऽप्यनवस्थाप्रसङ्गात्, गुणसमन्वयाभावादप्रतिपत्तेश्च वास्तवसादृश्याधारभूतधर्म्यन्तरसदृशः पारिशेष्यात् परिकल्पनीयतामहतीति सचेतसः प्रमाणम् । तस्मात्तथाविधर्मिणः सादृश्येनेति व्यक्तम् । क्वचिदवास्तवेनापि प्रौढिवादेन उक्तविधप्रकारान्तरमपरमस्याः प्रतिपादयति-"उभयेन वा” संभावनानुमानसादृश्यलक्षणोभयेन वा कारणद्वितयेन संवलितवृत्तिना प्रस्तुतव्यतिरिक्तार्थान्तरयोजनमुत्प्रेक्षा । प्रकारत्रितयस्याप्यस्य केनाभिप्रायेणोपनिबन्धनमित्याह – “निर्वातिशयोद्रेकप्रतिपादनवाञ्छया" - वर्णनीयोत्कर्षकाष्ठाधिरूढिसमर्पणाकांक्षया । कथम् ? " तदिवेति तदेवेति वा" द्वाभ्यां प्रकाराभ्याम् । “तदिव" अप्रस्तुतमिव । तदतिशयप्रतिपादनाय (या)प्रस्तुतसादृश्योपनिबन्धः । “तदेवेति" -अप्रस्तुतमेव प्रस्तुतमिति । (समारोपित)स्वरूपप्रसरणपूर्वकमप्रस्तुतस्वरूपसमारो(पस्य) प्रस्तुतोत्कर्षधाराधिरोहप्रतिपत्तये तात्पर्यान्तरयोजनम् । कैः उत्प्रेक्षा प्रकाश्यत इत्याह-“इवादिभिः”– इवप्रभृतिभिः शब्दः यथायोगं प्रयुज्यमानैरित्यर्थः । "वाच्या" इति । पक्षान्तरमभिधत्ते-“वाच्यवाचकसामर्थ्याक्षिप्तस्वाथैः” तैरेव प्रयुज्यमानः प्रतीयमानवृत्तिभिर्वा ।
तत्र संभावनानुमानोदाहरणं यथा
आपीडलोभादुपकर्णमेत्य प्रत्याहितोपांशुरुतद्विरेफैः । अभ्यस्यमानेव महीपतीनां संमोहमन्त्रं मकरध्वजेन ।।१०६ ।।