________________
१७०
वक्रोक्तिजीवितम्
[३.२६ छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा ग्रीष्मोष्मापदि शीतलस्तलभुवि स्पर्शोऽनिलादेः कुतः । वार्ता वर्षशते गते किल फलं भावीति वार्तेव सा द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयम्
॥ ९६ ।। संबन्धान्तरसमाश्रयणात् वाक्यान्तर्भूताप्रस्तुतपदार्थप्रशंसोदाहरणं यथा
इन्दुलिप्त इवाञ्जनेन जडिता दृष्टिर्मगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुत
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥९७॥ अत्र इन्दुप्रभृतीनां निमित्तिनां विच्छायता निमित्तम् । सीतायाः संबन्धी शोभातिशयसौकुमार्यमनोहरो मुखाद्यवयवसमूहः प्रकृताङ्गभूतभूषणान्तरोपनिबन्धसहाय: प्रस्तुतप्रशंसां समर्पयन् सोत्कर्षः प्रतीयते ।
एवमस्मादेव संबन्धा (न्तर)समाश्रयणात् सकलवाक्य-व्यापकाप्रस्तुतप्रशंसोदाहरणम् यथा
परामृशति सायकं क्षिपति लोचनं कार्मुके विलोकयति वल्लभास्मितसुधावक्त्रं स्मरः । मधोः किमपि भाषते भवननिर्जयायावनि
गतोऽहमिति हर्षितः स्पृशति गात्रलेखामहो ।। ९८॥ अत्र प्रकारान्तरप्रतिपादनागोचरस्तरुणीतारुण्यावतारस्तथाविधमन्मथचेष्टातिशयनिमित्तवतः तन्निमित्त (रूपसंबन्धाश्रयणात् प्रतीयते)।
असत्यभूतवाक्यार्थतात्पर्य प्रस्तुतप्रशंसोदाहरणं यथा